SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४४९ -४५०] दीप अनुक्रम [५४२-५४३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७२ || X ख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे'त्ति क्रोधपरिणामजनकं कर्म्म, तत्र क्रोध इति सामान्यं नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाञ्चलनमात्रं, रोषः - क्रोधस्यैवानुबन्धो, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रोधकार्य, द्वेषो वाऽप्रीतिमात्रम्, अक्षमा--परकृतापराधस्यासहनं, सज्ज्वलनो - मुहुर्मुहुः क्रोधाग्निना ज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतच क्रोधकार्य, चाण्डिक्यं रौद्राकारकरणं, एतदपि क्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धं, एतदपि क्रोधकार्यमेव, विवादो विप्रतिपत्तिसमुत्थवचनानि इदमपि तत्कार्यमेवेति, क्रोधेकार्था बैते शब्दाः । 'माणे'त्ति मानपरिणामजनकं कर्म्म, तत्र मान इति सामान्यं नाम, मदादयस्तु तद्विशेषाः, तत्र मदो - हर्षमात्रं दर्पो दृप्तता स्तम्भः - अनम्रता गर्व - शौण्डीर्य 'अतुकोसे' त्ति ★ आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम् - उत्कृष्टताऽभिधानं परपरिवादः परेषामपवदनं परिपातो वा गुणेभ्यः परि- ४ पातनमिति, 'उकासे'त्ति उत्कर्षणं आत्मनः परस्य वा मना क्रिययोत्कृष्टताकरणं उरकाशन वा प्रकाशनमभिमा| नात्स्वकीयसमृद्ध्यादेः 'अवकासे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति अप्रकाशो वाऽभिमानादेवेति, 'उण्णए'त्ति उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतम् उच्छिन्नो वा नयो नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उष्णामे'त्ति प्रणतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामे' त्ति मदाद्दुष्टं नमनं दुर्नाम इति, इह च स्तम्भादीनि मानकार्याणि मानवाचका वैते ध्वनय इति । 'माय'ति सामान्यं उपध्यादयस्तद्भेदाः, तत्र 'उबहि'त्ति उपधीयते येनासावुपधिः- वचनीयसमीपगमनहेतुर्भावः 'नियडित्ति नितरां करणं निकृति: For Parts Only ~ 1149~ १२ शतक ५ उद्देशः पापस्थान वर्णादिः वि रमणप्रभू तिवर्णादिः सू ४४९४५० ॥५७२॥ waryru
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy