________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, ( साक्षीपाठ)
६७५/१२९७
मुक्तात्मन इव जगत्कर्तृत्वानुपपत्तेः ।" सन्मति० टी० पृ० ११९ ।
(E-22) "अस्तु वादृश्योऽसौ तथापि सत्तामात्रेण, ज्ञानवत्त्वेन, ज्ञानेच्छाप्रयत्नवत्त्वेन, तत्पूर्वकव्यापारेण ऐश्वर्येण वा क्षित्यादेः कारणं स्यात् ?" न्यायकुमु० पृ० १०६।
(E-23) "ऐश्वर्यमपि ज्ञातृत्वम्, कर्तृत्वम्, अन्यद्वा स्यात् ?" न्यायकुमु० पृ० १०६ ।
(E-24) "किंच, ईश्वरस्य जगन्निर्माणे यथारुचि प्रवृत्तिः, कर्मपारतन्त्र्येण, करुणया, धर्मादिप्रयोजनोद्देशेन, क्रीडया, निग्रहानुग्रहविधानार्थम्, स्वभावतो वा ?" न्यायकुमु० पृ० १०७ । "अभावाच्चानुकम्प्यानां नानुकम्पास्य जायते । सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः ॥५३॥"मीमांसाश्लो० पृ० ६५२ । तत्त्वसं० पृ० ७६ । सन्मति० टी० पृ० १३० । स्या० रत्ना० पृ० ४४७ ।
(E-25) "क्रीडार्थायां प्रवृत्तो च विहन्येत कृतार्थता ॥५६॥" मीमांसाश्लो० पृ० ६५३ । तत्त्वसं० पृ० ७७।
(E-26) "बोधो न वेधसो नित्यो बोधत्वादन्यबोधवत् । इति हेतोरसिद्धत्वान्न वेधाः कारणं भुवः ॥१२॥"-तत्त्वार्थश्लो० पृ० ३६० ।
(E-27) "तथापि शास्त्राणां प्रमाणेतरव्यवस्थाविलोपः सर्वशास्त्रं प्रमाणमेव स्यात् ईश्वरप्रणीतत्वात् तत्प्रणीतप्रसिद्धशास्त्रवत् ॥" न्यायकुमु० पृ० १०८ ।
(E-28) “प्रतिवाद्यादिव्यवस्थाविलोपश्च सर्वेषामीश्वरादेशविधायित्वात् ।"-न्यायकुमु० पृ० १०८ ।
(E-29) "सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्त्या न चासीदिति कल्पना ॥११७॥"-मीमां० श्लो० सू० २, पृ० ८१ । “सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत् ।।३१८६॥"-तत्त्वसं० ।
(E-30) "न चागमेन सर्वज्ञः तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥११८।। न चाप्येवं परो नित्यः शक्यो लब्धुमिहागमः । नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता ॥११९॥"मी० श्लो० प्रत्यक्षसू० ।
(E-31) "सर्वज्ञसदृशः कश्चिद् यदि दृश्येत सम्प्रति । तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥३२१५॥"-तत्त्वसं० पृ० ८३८ ।
(E-32) "उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः । अन्यथा नोपपद्येत सार्वज्यं यदि नो भवेत् ॥३२१७।। प्रत्यक्षादौ निषिद्धेऽपि सर्वज्ञप्रतिपादके। अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते ॥३२१८॥"तत्त्वसं० पृ० ८३८ ।
(E-33) "साम्प्रतं सामटयज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह... युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम् । ज्ञानं नैकधिया दृष्टं भिन्ना वा गतयः क्वचित् ॥३२४९।। भूतं भवद्भविष्यच्च वस्त्वनन्तं क्रमेण कः । प्रत्येकं शक्नुयादद्वोद्धं वत्सराणां शतैरपि ॥३२५०॥" तत्त्वसं० पृ० ८४४ । “अपि च सर्वं न क्रमेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org