SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ४९७ षष्ठ उच्छासः उपनदि मृदुवीचीवायुनाऽन्दोलितानां, कुसुमितलतिकानामन्तरालेष्वमूनि ॥ ७५ ॥ भजतेति । हे बलसमूहाः !-सैन्यवृन्दानि यूयं उपनदि-नद्यां मृदुर्यो वीचीवायुःतरङ्गवातस्तेन अन्दोलितानां-कम्पितानां कुसुमिताः-पुष्पिता या लता एव लतिकास्तासां अन्तरालेषु-मध्येषु अमूनि खर्वाणि-अनुच्चानि दुर्वास्थलानि भजत-आश्रयत । किम्भूतानि खर्वदूर्वास्थलानि ? स्थविरा:-वृद्धा ये शुकास्तेषां विजीर्यन्ति-विशेषेण जीर्णीभवन्ति यानि पक्षपिच्छानि तद्वच्छवि:-कान्तिर्येषां तानि । यद्यपि पक्षपिच्छयोरभिधानकृता न भेदः प्रत्यपादि तथापि महदेवान्तरं, यतः पक्षशब्देन पक्षीतिरेव, पिच्छशब्देन तु तदंशोऽभिधीयते । मालिनी ॥ ७५ ॥ अपि च स्मरविहरणवेदी षट्पदापानशालां, तटमनु वनमालां सस्मया मास्म भाङ क्षुः । कमलवनविहारानन्तरं यत्र तैस्तै, मदनमदविनोदैरासते राजहंसाः ॥७६॥ अपि च पुन: स्मरेति । हे सैनिकाः ! सस्मया:-सगर्वाः सन्तो भवन्तस्तटमनुलक्षीकृत्य अनुतटंतटसमीपे वनमालां-वनश्रेणिं मा स्म मांक्षुः-मा भञ्जन्तु । किम्भूतां वनमालाम् ? स्मरस्य विहरणवेदीव-क्रीडनवेदिकेव या सा तां । वेदी तु संस्कृताभूमिः, स्मरोऽत्र क्रीडतीत्यर्थः । विपूर्वो हरति क्रीडार्थः । तथा षट्पदानां-भृङ्गाणां आपानशालेव-मधुपानस्थानमिव या सा तां, मत्तता हेतुत्वात् । आपिबन्त्यस्मिन्निति आपानं-पानस्य गोष्ठी आसनबन्धः । यत्र वनमालायां राजहंसाः कमलवने यो विहारः-विचरणं तस्मादनन्तरं-पश्चात् तैस्तैरद्भुतैर्मदन:-कामः मदः-हर्षस्ताभ्यां ये विनोदा:-कौतुकानितैरुपलक्षिता आसते-तिष्ठन्ति । मदनमदविनोदान् कुर्वन्तः सन्तीति भावः । मालिनी ॥ ७६ ॥ अपि च सुरसदननिवासं सैनिका मा स्म कुर्वन्-, सरिति मुनिकुटीनां भङ्गमुल्लुण्टनं वा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy