SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्रासः ४६३ धातौ" [३/३७] इत्यनेकार्थः । तेन च सन्ध्यारागेण संवलितानि-मिश्रितानि तमांसि जम्भनिशुम्भनः-इन्द्रस्तस्य ककुभि-पूर्वस्यां दिशि विजृम्भितुं-विस्तरितुं आरभन्त-प्रयत्नं चक्रुः । किम्भूतानि तमांसि? विपिने-वने जरन्तः-वृद्धा ये कृकवाकव:-ताम्रचूडास्तेषां कन्धरायां यानि रोमाणि तद्वद् रोचिः-छविर्येषां तानि धूसरवर्णानीत्यर्थः । ततश्च नष्टचर्याक्रीडयेवादर्शनीयचयां विशन्तेषु दिक्क न्यकासु, वनमुनिहोमधूमगन्धेन संतlमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवोन्नतवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, मनाग्भिन्नाञ्जनपत्रस्तबकितेषु जाते निशामुखे, नरपतिस्तेन किन्नरमिथुनेन सार्धमपथायातप्रज्ज्वलितप्रदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूककृतशब्दं शिबिमिव शिबिरसंनिवेशमविशत् । ततश्चेति । तत:-उच्चलनानन्तरं नरपति:-नल एवमेवं जायमाने सति, तेन किन्नरमिथुनेन सार्धं-अर्धपथे एव आयातः-अभिमुखं प्राप्तः, तथा प्रज्ज्वालिताः-स्नेहेन सिक्ताः प्रदीपिकाः पाणिषु यस्य स, ततः कर्मधारयः, एवम्विधो यः परिजनस्तेन परिकरित:-परिवृतः सन् शिबिरसन्निवेशं-सेनास्थानकं अविशत्-प्रविवेश । कासु सतीषु ? दिक्कन्यकासु-दिक्कुमारीषु अदर्शनीयस्य-अनवलोकनीयस्य या चर्या-गतिस्तां विशन्तीषु-प्रविशन्तीषु सतीषु, दिशो न दृश्यन्त इति भावः । अदर्शनमायान्तीष्विति पाठान्तरम् । उत्प्रेक्ष्यते, नष्टचर्याक्रीडयेवशिशुक्रीडाविशेषेणेव । अन्या अपि कुमार्यो रममाणाः क्रीडया क्वचिद्विवरे प्रविश्य अदृश्या भवन्ति तथेमा अपि । तथा वनदेवतासु वनमुनीनां-तापसानां होमस्य यो धूमगन्धस्तेन संतमेमाणासुपूज्यमानासु सतीषु । पुनः केषु सत्सु? शनै:-मन्दं मन्दं तिमिरेषु अन्धकारेषु उत्तुङ्गाः-उन्नता या वप्रस्थल्यः-तटप्रदेशास्तासु परिणमत्सु-परिपाकं गच्छत्सु सत्सु, बहलीभवत्स्वित्यर्थः । तिमिरेषु केष्विव ? उत्प्रेक्ष्यते, निद्रया अन्धानीव अन्धानि यानि सिन्धुरयूथानि-हस्तिवृन्दानि तेष्विव, कृष्णत्वसाधर्म्यात् तानपि उत्तुङ्गवप्रस्थलेषु परिणमन्ति तिर्यक्प्रहारं ददते । पुनः क्व सति ? निशामुखे-प्रदोषे मनाक्-ईषत् भिन्नानि-विकसितानि यानि अञ्जनपत्राणि-कृष्णवृक्षविशेषदलानि तैः स्तबकितमिव कर्बुरितमिव, स्तबकितं तस्मिन् जाते सति । शङ्के, इदं निशामुखं तमसा कृष्णं नास्ति रजन्या अञ्जनपत्रैः स्वमुखं मण्डितमिति । किम्भूतं शिबिरसन्निवेशम् ? शरणाय नीडार्थमागताः कपोता:-पारापता यस्मिन् स तथा तम् । तथा उत्पतिता:-उड्डीना ये उलूका:घूकास्तैः कृतः शब्दो यत्र तं । निशासु हि कपोता: नीडमागच्छन्ति, उलूकाश्च उड्डीयन्ते । कमिव ? १. सान्ध्यरागेण । २. तान्यपि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy