SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ४५६ दमयन्ती-कथा-चम्पूः पुष्कराक्षोऽपि किन्नरं पुरस्कृत्य-अधिकृत्य अभाषत । हे सुन्दरक ! किन्नरकान्तायाः-प्रियाया मुखावलोकने अवसक्तः-आसक्तः सन् समीपं-निकटमागतानपि अस्मान् न पश्यसि ? तत्-तस्मात् इंत:-अस्मिन्प्रदेशे दत्ता-दृष्टिर्येन एवम्विधो भव, इतः पश्येत्यर्थः । स एष निषधेश्वरः कुसुमचापचक्रं विना, प्रसादितमहेश्वरः स्मर इवागतो मूर्तिमान् । विलोकय विलोचनामृतसमुद्रमेनं नृपं, विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥ स इति । या दमयन्त्याः पुरो व्यावर्णितः एष प्रत्यक्षो निषधेश्वर:-नलो मूर्तिमान् देहभृत्-स्मर इव आगतः । किम्भूतः ? कुसुमचापचक्रं विना-रहितो भूतः । तथा प्रसादिता:-प्रसन्नीकृता महान्तः-ईश्वरा येन सः । एतावता पूर्वस्मरात् व्यतिरेकोक्तिः । यतः, पूर्वः स्मरः कुसुमचापचक्रं धत्ते न च मूर्तिमान् दग्धाङ्गत्वात् प्रकोपितमहेश्वरश्च । यदा प्रसाधितेति पाठस्तदा प्रसाधिता-अलङ्कृता महान्तः-ईश्वरास्त्राणादिना येन सः, ताक् निषधेश्वरः । स्मरस्तु साधयितुं-वशीकर्तुं प्रारब्धो महेश्वर:-शिवो येन सः । कुसुमान्येव चापचक्र-धनुर्मण्डलं । विलोकयेति, विलोचनयोः-नेत्रयोरमृतसमुद्र इव आह्लादजनकत्वात् यः स तं एनं नृपं-नलं विलोकय-पश्य । तथा नयनयोरुत्सवं, नयनोत्सवं-नेत्रानन्दं विधेहि-कुरु । तथा आत्मन:-स्वस्य कृतार्थां-सम्पन्नमनोरथतां कुरु ॥ ३६ ॥ त्वमपि विहंगवागुरे, परमरहस्य सखी देव्याः सा हि त्वच्चक्षुषा पश्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते । तदेहि दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यहृदेऽस्मिन् राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिमवादीत् । हे विहङ्गवागुरे ! त्वमपि देव्या:-दमयन्त्याः परमरहस्यस्य-उत्कृष्टतात्पर्यस्य सखीवयस्या परं रहस्यं त्वामेव वदतीत्यर्थः । कथं परमरहस्यसखीत्याह-हिः-यस्मात् सा दमयन्ती त्वच्चक्षुषा-त्वल्लोचनेन पश्यति, यत्त्वया दृष्टं तत्तयापि दृष्टं, त्वदृष्टं सर्वमपि यथार्थं मन्यत इत्यर्थः । तथा सा त्वत्कर्णाभ्यां-त्वदीयश्रोत्राभ्यां आकर्णयति, यत्त्वया श्रुतं तदवितथमेव मन्यमानया तया त्वत्तः श्रूयते । तथा सा त्वन्मनसा-त्वदीयचेतसा मनुते-जानाति, यत्त्वया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy