SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ४४६ दमयन्ती-कथा-चम्पूः हे देव !- राजन् ! खलु - निश्चितं इमाः पयोष्णी परिसरस्य वनभूमयः पुण्याः पवित्राः । किम्भूताः ? मार्कण्डेयः प्रमुख:-प्रधानं येषु एवम्विधा ये महामुनयस्तेषां निवासेन पवित्रा:-शुचीकृताः । तथाहितथाहीति-महामुनिनिवासमेव दर्शयन्नाद श्रूयते किलास्मादुद्देशात्पूर्वदिग्भागे भगवतः पुराणपुरुषावतारस्य परशुरामस्य जनयितुर्जमदग्नेराश्रमः । ततो नातिदूरे प्रणतसुरासुरमौलिमालामुकुलमुक्तमकरन्दबिन्दुस्नपितपादारविन्दस्य भगवतः स्वस्वेदप्रसरप्रवर्तितपयोष्णीप्रवाहस्य महावराहस्यायतनम् । श्रयत' इति । किलेति आप्तोक्तौ, आप्ता इति वदन्ति । अस्मादुद्देशात् पूर्वदिग्भागे भगवतः-ऐश्वर्यादिवतस्तथा पुराणपुरुषस्य-विष्णोरवतारो यः स तस्य परशुरामस्य जनयितुः-पितुः जमदग्नेराश्रमः-मुनिस्थानं श्रूयते । ततः-आश्रमानातिदूरे-समीपे महावराहस्य-लब्धवराहावतारस्य भगवतः विष्णोरायतनं-आश्रमः श्रूयते । किम्भूतस्य ? प्रणता ये सुराश्च असुराश्च तेषां मौलिषु -शिरस्सु या माला:-पुष्पस्रजस्तासु यानि मुकुलानिअर्धविकसितानि कुसुमानि' तैर्मुक्ताः-त्यक्ता ये मकरन्दबिन्दवस्तैः स्नपितं-प्रक्षालितं पादारविन्दं यस्य स तस्य ! “निरुपपदो हि भाषाशब्दः पुष्पस्रजमेवाभिधत्ते" इति काव्यप्रकाशे [कात्यालंका सूची व्याख्या २/२/१६] । तथा स्वस्वेदप्रसरेण स्वधर्मजलनिर्गमनेन प्रवर्तितः-प्रारब्धः पयोष्ण्या: प्रवाहो येन स तस्य, तावत् प्रमाणं स्वाङ्गप्रस्वेदजलं निर्गतं येन पयोष्णीप्रवाह: प्रावत्ततेति । इतोऽप्यवलोकयतु देव:सैषा चलच्चन्द्रकिचक्रवाकचञ्चुच्चकोराकुलकूलकच्छा ।, स्वःसीमसोपानसदृक्तरङ्गा गङ्गाप्रतिस्पर्धिपयाः पयोष्णी ॥ २६ ॥ तथा इतोऽपि-अस्मिन्नपि प्रदेशे देव:-नृपो अवलोकयतु-पश्यतु । सैषेति । हे देव ! स एषा पयोष्णी-सरित् वर्तते । किम्भूता पयोष्णी ? चलन्तो ये चन्द्रकिनश्च-मयूराश्च चक्रवाकाश्च-रथाङ्गाः चञ्चन्त:-दीप्यमानाः चकोराश्च-विषसूचकास्तैराकुला:-संकीर्णाः कूले-तटे कच्छा:-शाकादिक्षेत्रप्रदेशा यस्याः सा । तथा स्व:-स्वर्गस्य १. अर्धविकसितकुमानि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy