SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ४४० तथा तव नामापि दुर्लभं ततस्त्वन्नाम्नः - त्वदभिधानस्य सदृशे - समुचिते वन्येपि वनोद्भवेपि नले-नडाख्ये तृणे दृशं निदधती - स्थापयन्ती । यतः किम्भूता ? मुग्धा - अप्रौढा एवम्विधा भैमी तव या सन्देशकथा - त्वत्सन्देशकथा प्रियोक्तवार्त्ता तां अर्थयते - श्रोतुमभिलषतीत्येवंशीला या सा, त्वत्सन्देशकथार्थिनी सती । पुनस्तान् - पूर्वकथितप्रियवार्त्ताकदम्बकान् राजहंसान्कादम्बकान् क्रीडोद्याने- केलिवने या तरङ्गिणी - सरित् तस्यास्तरुतलच्छायासु वापीषु य मृगयते अवलोकयति । वन्येपीत्यत्र यद्यपि भवार्थे वनशब्दस्य नद्यादौ पठितत्वात् ढक् स्यात्, तथा च वाने ये इति रूपं स्यात्, तथापि 'तत्र भव' इत्यस्मिन्नर्थे दिगादित्वात् यत् [दिगादिभ्यो यत्, पा. सू. ४ / ३ / ५४ ] | " वन्यं वनेभवो वन्यो वनचारिसमूहयोः "[यान्त. १२] इति विश्वप्रामाण्याच्च त्वमिदं वचनं ब्रूया इत्येष शब्दः सन्देशः ॥ २२ ॥ अपि च । सांप्रतं तया त्वद्देशागतमारुतेन मृदुना संजातरोमाञ्चया, त्वद्रूपाञ्चितचित्रचारुफलके ? निर्वापयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने, नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ २३ ॥ अपि च- पुनः, साम्प्रतं तया भैम्या त्वद्देशेति । त्वन्मार्गवातायने - यस्मिन् मार्गे भवान् एष्यति तन्मार्गगवाक्षे नीचैःनिभृतं प्रच्छन्नरागत्वात् मुग्धत्वाच्च पञ्चमगीत्या - पञ्चमरागेण गर्भिता - सहिता या गीस्तया नक्तं -दिनं - अहर्निशं स्थीयते, पञ्चमरागेण गायन्ती दिनानि गमयतीत्यर्थः । किम्भूतया तया ? मृदुना - सुस्पर्शेन तव देश: - त्वद्देशः - उत्तरो देशस्तस्मादागतो यो मारुतस्तेन सञ्जाता रोमाञ्चाः–पुलका यस्याः सा तया । तथा तव रूपेण - आकृत्या अङ्कित :- चित्रितः चित्रचारुरालेख्यप्रधानो यः फलकस्तस्मिन् दृशं - स्वीयं नेत्रं निर्वापयन्त्या - शीतली कुर्वत्या, त्वद्रूपाङ्कितफलकावलोकनादेव स्वीयां दृशं तोषयन्त्येति भावः । तथा तव नामैव अमृतं तेन सिक्तौ - उक्षितौ कर्णपुटौ - श्रोत्रकपाटौ यस्याः सा तया श्रोत्रसुखकारित्वान्नामशृण्वत्या उभे अपि । शार्दूलविक्रीडितवृत्ते । ॥ २३ ॥ Jain Education International - एवमनु गुणमनुरागस्य, सदृशं शृङ्गारस्य, सहोदरमादरस्य, प्रियं प्रेमप्रपञ्चस्य ४, प्रोत्साहनमनङ्गस्य, अनुकूलमुत्कण्ठायाः, समुचितमभिनिवेशस्य, कौतुकजननं ५ जल्पति पुष्कराक्षे, श्रवणकुतूहलिनि For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy