SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४३० दमयन्ती-कथा-चम्पू: केषु सस्तु ? गगनमेव चत्वरं-संस्कृताभूमिस्तस्मिन् चर्चाप्रकाराय-पूजाविशेषार्थं यानि पाण्डुपुष्पाणि तेषां पुञ्ज इव यानि तानि तथा तेषु नक्षत्रेषु अपनीयमानेषु दूरीक्रियमाणेषु सत्सु । उत्प्रेक्ष्यते उन्मिषती-उड्डयनाय वितती भवती पक्ष्मणी-पक्षती येषां एवम्विधा ये पक्षिणस्तेषां पक्षयोरवधूननेन कम्पनेन ये पवना:-वातास्तैरिव । अन्यान्यपि पुष्पाणि पवनेन अपनीयन्ते तथाऽमूनि पुष्पोपमानानि नक्षत्राणि प्रातःकालोड्डीनपक्षिपक्षवातैरिव किमु अपनीतानीति भावः । “प्रकारः सदृशे भेदे" "पक्ष्माक्षि लोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि" इत्यनेकार्थः [३/६०८] । पुनः क्व सति ? दिननाथे-रवौ दिङ्मुखानि प्रसादयति-विमलयति सति । किम्भूतानि दिङ्मुखानि ? स्वस्य विरहेण-वियोगेन उत्पन्नो यस्तम एव कलङ्कस्तेन कलुषितानि- श्यामलीभूतानि । किं कृत्वा ? मनाक्-स्तोकं कुङ्कमपङ्कवत्-घुसृणकर्दमवत् पिञ्जरा:-पिङ्गलवर्णा ये करा:किरणास्तैः कृत्वा परामृश्य-संस्पृश्य । अन्योपि विलासी कुङ्कमपङ्कपिञ्जरकराभ्यां परामृश्य स्ववियोगोत्पन्नतामसभावकलुषितं स्वप्रियाया मुखं प्रसादयति-प्रसन्नं करोति तथैतस्मिन् रवौ प्रसादयति सति, सूर्ये उद्गते इत्यर्थ । एवमपसरन्मार्गान्मार्गान्नीवारिणि वारीणि सहसनिनदान्नदान् सकरेणुरेणुस्थलमाच्छादितदिशि खराणि शिखराणि' लङ्घयन् सुनीरागान् गिरिगहनग्रामास्तपस्विनश्च मानयन्नेकदा नातिदूर इवोत्कैः कादम्बकदम्बचुम्ब्यमानाम्बुजराजिरजोरञ्जिताम्भसि सरिति तीरे तरुतलोपविष्टमेकमध्वश्रान्तमध्वनीनमिदं३ चाटुश्लोकयुगल मतिमधुरगीततरङ्गरङ्गिताक्षरं५ गायन्तमद्राक्षीत् । ___ एवं-अमुना प्रकारेण मार्गादीनां लङ्घनादिकं कुर्वन् एकदा-एकस्मिन् दिने नातिदूर इव-स्वसमीपे एव सरिति-नद्यां तीरतरो:-तटवृक्षस्य तले-अधोभागे उपविष्टं-निषण्णं एकमध्वश्रान्तं-मार्गातिक्रमणखिन्नं अध्वानमलंगामी इत्यध्वनीनस्तं इदं-वक्ष्यमाणं चाटुश्लोकयुगंप्रियवाक्यपद्यद्वयं अतिमधुरैः-श्रवणानुकूलैः गीततरङ्गैः-गानपरम्पराभिः-रङ्गितानि-क्रीडितानि अक्षराणि यत्र एवं यथा भवति तथा गायन्तं अद्राक्षीत्-ददर्श । एवमिति कथम् ? अपसरत्सैन्यभयान्निवर्तमानं मार्ग मृगसमूहो येभ्यस्तथाविधान् मार्गान् लंघयन्-अतिक्रामन् तथा नीवार:वनव्रीहिरस्त्येष्विति नीवारीणि एवम्भूतानि वारीणि। जलानि उल्लंघयन्, तथा सह हंसानां निनदैः-शब्दैवर्तन्त इति सहसनिनदास्तथाविधान् नदान्-जलाधारान् उल्लंघयन्, तथा करेणुभिःगजैः सह-युक्तं रेणुस्थलं लंघयन्, तथा आच्छादिता दिशो यैस्तानि आच्छादितदिशि एवंभूतानि खराणि-तीक्ष्णानि शिखराणि-कूटानि लंघयन् । पुनः किं कुर्वन् ? एवंभूतान् गिरिगहने १. श्यामीभूतानि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy