SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ श्रीः अथ षष्ठोच्छ्वास व्याख्या प्रस्तूयते अथ द्विजजननिकायकीर्णसंध्याञ्जलिजलैरिव क्षाल्यमाने मनाग्विमलतां व्रजति तिमिरमलिनेऽम्बरे, मालाकारेणेव प्रभातप्रभोद्भेदेनावचीयमानेषु गगनपुष्पवाटिकाकुसुमेष्विव नक्षत्रेषु निद्रापहारहङ्कार इवोत्थिते प्रभातभेरीशंख ध्वनौ, नरपतेः प्रबोधार्थमदूरे वैतालिक: पपाठ । षष्ठ उच्छ्वासः १. गगनेपि अनू. । Jain Education International अथेति । अथ-निशातिवाहनानन्तरं स्वभावस्वच्छेऽपि तिमिरेण मलिने - कृष्णे अम्बरे-आकाशे मनाक्- स्तोकं विमलतां - निर्मलतां भजति सति । उत्प्रेक्ष्यते, द्विजजननिकायेन-ब्राह्मणजनसमूहेन विकीर्णानि - विक्षिप्तानि यानि सन्ध्याञ्जलिजलानि तैः क्षाल्यमाने इव-शोध्यमाने इव । अन्यदपि अम्बरं - वस्त्र स्वभावस्वच्छमपि तिमिरवन्मलिनं सत् क्षाल्यमानं मनाक् निर्मलं भवति । तथा गगनमेव पुष्पवाटिका तस्यां कुसुमानीव यानि तानि गगनपुष्पावाटिकाकुसुमानि तेषु नक्षत्रेषु मालाकारेणेव - मालिकेनेव प्रभातस्य या प्रभा तस्या उद्भेदः-उल्लासस्तेन अवचीयमानेषु - गृह्यमाणेषु सत्सु यथा मालिकः पुष्पवाटिकातः कुसुमानि उच्चिनोति तथा गगनमपि प्रभातप्रभया नक्षत्राणि उच्चीयन्ते, अतएव अल्पान्यल्पानि जायन्त इति भावः । तथा प्रभातस्य भेरीखो यः शङ्खध्वनिस्तस्मिन् उत्थिते सति-जाते सति । उत्प्रेक्ष्यते, निद्राया यो अपहार : - अपहरणं तत्र हुङ्कार इव निषेधशब्द इव, अस्मिन् जाते निद्रा दूरतोऽपयातेत्यर्थः । नरपतेः - नलस्य प्रबोधार्थं - जागरणाय अदूरे - समीपे वैतालिक:-सौखसुप्तिकः पपाठ । उदयगिरिगतायां प्राक्प्रभापाण्डुतायामनुसरति निशीथे शृङ्गमस्ताचलस्य । , For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy