SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३९५ यत् हस्तद्वयं तेन अविरतं-निरन्तरं इदमम्भः-जलं कर्म स्वेच्छया-स्वकामेन अनयापि कामिन्या का उच्छालयन्त्या-उल्लालयन्त्या, उत्प्रेक्ष्यते, कामबाणातिथिभ्यः कामस्य बाणा:-मोहनादय एव अतिथयस्तेभ्यः, अर्घः-पूजाविधिः परिकलित इव-दत्त इव ते सत्कृता इत्यर्थः । पुनरुत्प्रेक्ष्यते, बाल्यलीलासुखाय सलिलं वितीर्णमिव-जलाञ्जलिर्दत्त इव, हे बाल्यलीलासुख त्वं दूरे चाहीत्यर्थः ॥ ६१ ॥ अस्याश्चकर्णमूलविषये मृदु गुञ्जन्याणिपल्लवहतोऽपि हठेन । एष षट्पदयुवा हरिणाझ्याश्चुम्बति प्रिय इवास्यसरोजम् ॥ ६२ ॥ अस्याश्चेति । कर्णेति । च-पुनः एष षट्पदयुवा कर्णमूलविषये-श्रवणसमीपे मृदु-मधुरं यथा भवति तथा गुञ्जन्-शब्दं कुर्वन् पाणिपल्लवेन-करकिसलयेन हतोऽपि-ताडितोऽपि अस्याः हरिणाक्ष्याः-कुरङ्गलोचनायाः प्रिय इव-भर्तेव आस्यसरोजं-मुखपद्मं हठेन-बलात्कारेण चुम्बति । यथा प्रियः पाणिपल्लवेन हतोपि हठात् प्रियाया मुखं चुम्बति तथाऽयमपि ॥६२।। इतोप्येषाभ्रमकरं मकरं मकरन्दिनी कमलिनीमलिनीमलिनीकृताम् । तरलयन्तमवेक्ष्य महाभयादुदतरत्सरितस्त्वरितैः पदैः ॥ ६३ ॥ इतोऽपि-अस्मिन्नपि प्रदेशे एषेति भ्रमेति । मकरन्दः-मधु अस्ति अस्यामिति मकरन्दिनीनां तथा अलिनीभिःभृङ्गीभिर्मलिनीकृता-कृष्णीकृता या सा, अलिनीमलिनीकृता तथाभूतां कमलिनी-पद्मिनी तरलयन्तं-क्षिपन्तं भ्रमकरं-आवर्तकरं मकरं-यादोविशेष अवेक्ष्य-विलोक्य महाभयात्तदवलोकनोत्पन्नमहाभीतेर्हेतोः त्वरितैः-उत्तालैः पादैः-क्रमैः एषा-किरातकामिनी सरितःनद्या उदतरत्-उत्तीर्णा ।। ६३ ।। एताश्च मन्दायते दिनमिदं मदनोतिसज्जस्तत्कि न गच्छत गृहानिति पद्मिनीभिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy