SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३७७ अस्माकं देवानां मध्ये कञ्चित्-कमपि वृणीष्वेति पापीयः-अतिशयेन पापं-अनिष्टं परदोषाणां यदुदाहरणं-कथनं यथा अल्पायुषा नरा इत्येवंरूपं तस्य द्वारेण-मुखेन अभ्यर्थनंयदस्मान् वृणीष्वेत्येवंरूपम् । अतो? देशकालकार्योक्तिकुशलस्त्वमुच्यसे । गच्छाग्रे, भव दूतो देवानामशेषवैदग्ध्यविशेषोक्तिकोविदः२ किमन्यदिह शिक्ष्यसे, तैस्तै-रुपायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः, क्रियतां देव-कार्यम्, आर्याणां प्रायः३ परोपकारकरणार्थमेव जन्म च जीवितं च, न च भवन्तमस्मदनुभावादन्यः कोऽपि कन्यान्तःपुरे रहस्यमपि वर्तमानां विदर्भेश्वरसुतामुपसर्पन्तमुपलक्षिष्यते' इत्यभिधाय व्यरंसीत् । अतो अस्माकं कथनविधेरभावो अतोऽस्माद्धेतोः अस्माभिर्यस्मिन् देशे यस्मिन्काले यस्मिंश्च कार्ये या उक्ति:-कथनं तस्यां कुशलः-दक्षस्त्वमुच्यसे-कथ्यसे । यथा अग्रे गच्छपुरो याहि, अशेष-समस्तं यद् वैदग्ध्यं-चातुर्यं तस्य ये विशेषा:-परमार्थास्तेषां या उक्तयःवचनानि तत्र कोविदः-पण्डितस्त्वं देवानां दूतो भव । अन्यत्-अपरं इह दूत्ये किं शिक्ष्यसे -किं विनीयसे ? तैस्तै:-अद्भुतैरुपायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः अस्मासु गार्द्धयजनकविधिभिर्देवकार्य क्रियताम् । यतः- प्रायः-बाहुल्येन आर्याणां-सतां परोपकरणार्थमेव-परहितविधानार्थमेव जन्म च जीवितञ्च-प्राणधारणं "आर्यो सज्जनसौविदौ" इत्यनेकार्थः [२/३४९] । तहि मया तत्र कन्यान्तःपुरे कथं गंस्यते ? इत्यत आह-न चेति। न च अस्मदनुभावात्-अस्मत्प्रभावादन्यः कोऽपि मनुष्यः कन्यान्तःपुरे रहस्यपि-एकान्तेपि वर्तमानां-विद्यमानां विदर्भेश्वरसुतां दमयन्तीं प्रति उपसर्पन्तं-समीपे गच्छन्तं भवन्तं त्वां उपलक्षिष्यते-ज्ञास्यते । एतावता तत्र गतस्य तव दूत्यं सुखेन साध्यं भविष्यतीति ।३ नलोऽप्येतदाकर्ण्य तदिदं संकटम् ‘इतो व्याघ्र इतो दुस्तटी, इतो दावाग्निरितो दस्यवः, इतो दुष्टदन्दशक इतोऽप्यन्धकूपः' इति न्यायात् । इतः कर्णान्ताकृष्टशरासनो मर्म प्रहारी प्रहरति मकरध्वज इतश्चायमेतेषामलङ्गनीय आदेशः । तन्न जानीमः किमत्रोत्तरम् । एकत्रार्थेऽस्माकं भवतां च प्रवृत्तिरिति प्रणयप्रार्थनाभङ्गकारिणी विहतविनया प्रतिकूलोक्तिः, अनभिज्ञोऽस्मि दूतोक्तीनामिति शाठ्यम्, असमर्थोऽस्मि संदिग्धक्रियाकारितायामित्याज्ञालङ्घनम्, आज्ञालङ्घनं च सेतुबन्धनमिव १. नास्ति अनू. । २. यतो अनू. । ३. भविष्यन्तीति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy