SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ३७२ दमयन्ती-कथा-चम्पू: आलिङ्गनात् या मुद्रा-लाञ्छनं तया अङ्किता-चिह्निता विपुला-विशाला या वक्षःस्थली तस्यां दृश्यमानः-ईक्ष्यमाणो महानीलमणिमण्डननिभ:-इन्द्रनीलरत्नालङ्कारसदृशो भव्यः-सुन्दरो वृत्रस्य-दैत्यविशेषस्य शस्त्रव्रणः-शस्त्रकृतं यस्य सः, वीराणां हि वपुरग्रभागे शत्रुशस्त्रव्रणोऽलङ्कारायते, अतएव वक्षो व्रणस्य भव्यत्वमुक्तम् । तथा श्रवणशिखरे आरोपिता:-न्यस्ता प्रत्यग्रा:-नवोत्पन्ना या पारिजातमञ्जरी तस्या गलन्त:-क्षरन्तो बहला:-निविडा ये किञ्जल्ककणा:-केसरलवास्तान् उद्वहत्-बिभ्रत् । उत्प्रेक्ष्यते, परिपूर्णी-समन्ताद्धृतौ यौ कर्णौ श्रवसी अतएव ताभ्यां उद्गीर्णान् अधिकत्वान्निःसृतान् कपोलपाली-गण्डपर्यन्तौ आमर्यादीकृत्य आकपोलपालिकपोलपर्यन्तं यावत् लग्नान् उपान्ते-श्रवःसमीपे गायतस्तुम्बुरो:-देवगायनस्य साक्षात्-प्रत्यक्षं अमृतायमाना-अमृतमिव आचरन्तो ये गीतरसतुषारा:- गानरसजलकणास्तानिव मन्ये, अमूनि कल्पतरुमञ्जरीकिञ्जल्कानि न भवन्ति किन्तु तुम्बुरोर्गायतो गीतरसतुषारा एव कर्णयोरमान्त:-सन्तो निर्गताः कपोलयोर्लग्नाः सन्तीति । तथा अनवरतं-निरन्तरं यच्छच्या:घृताच्याश्चुम्बनं तेन संक्रान्तं-लग्नं यत्ताम्बूलं तस्य लाञ्छनमिव-लक्ष्मेव आचरत् रक्तत्वाद् यत् अच्छाच्छहरिचन्दनं-अतिशयेन स्वच्छगोशीर्षद्रवस्तेन निरुद्धः-लिप्तो बन्धुरः-रम्यः स्कन्धयोर्सन्धिर्यस्य स । तथा हारयष्ट्या-मुक्तालतया आस्फालितं-चलनवशादास्फोटितं वक्षःस्थलं यस्य सः । क इत ? अन्धक इव-दैत्यविशेष इव ? स च किम्भूतः ? हरस्येयं हारी-यष्टिः शूललक्षणा तथा आस्फालितं-आहतं वक्षःस्थलं यस्य सः । तथा सहस्रं अक्षीणि यस्य स सहस्राक्षः “समासान्तोऽच्" [ ] । क इव? विन्ध्यगिरिरिव । स च किम्भूतः? सहस्रं-बहवो अक्षा:-बिभीतका यस्मिन् स तथा, सहस्रशब्दः-प्राचुर्यवचनः । तथा कुण्डलीकर्णालङ्कारवान् तथा पाता:-रक्षिता तथा अलं-अत्यर्थं उद्भासमानश्च-रोचमानः । क इव ? पन्नगेन्द्र इव-शेष इव। स च किम्भूतः ? कुण्डली-कुण्डलाकारो अस्ति अस्येति कुण्डली, तथा पाताले मुत् पातालमुत् तया भासमानः-दीप्यमानः पातालवासित्वात् । तथा मत्तमातङ्गः-औचित्यादैरावणस्तेन गच्छतीत्येवंशीलो मत्तमातङ्गगामी । क इव ? कलिकालेकलियुगे शापेन-दधीचिमुनेः आक्रोशेन-अवतीर्णा-आयाता या सरस्वती-वाग्देवी तस्या गीतप्रवाह इव-गाननैरन्वर्थमिव । स च किम्भूतः ? मत्तमातङ्ग:-क्षीबचाण्डालस्तस्मिन् गच्छतीत्येवंशीलो मत्तमातङ्गगामी । किल पुराणादौ श्रूयते-पुरा सरस्वतीदधीच्योर्देवत्वविषये संवादे जायमाने क्रुद्धेन दधीचिना शप्ता सती सरस्वती कलिकाले चाण्डालकुलेऽवततार । अतएव कलिकाले चाण्डाला एव मधुरं गायन्तीति । तथा दिशि दिशि-सर्वासु दिक्षु विकीर्णाः-विक्षिप्ताः कनकवत् कपिशा:-पिङ्गलवर्णा अंशवः-किरणा येन सः, तथा आविष्कृतंप्रकटितं पद्मरागस्य-लोहितमणेर्यत् अरुणं-लोहितं प्रभामण्डलं-कान्तिवृन्दं तदेव मण्डनं यस्य सः । क इव ? अंशुमान इव-रविरिव । स च किम्भूतः ? आविष्कृतो यः पद्मानां राग: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy