SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः येषां चेति उच्चैरिति । हे देव ! अहमेवं मन्ये सम्भावयामि नूनं निश्चितं येषां च तरूणां उच्चैः - ऊर्ध्वं शाखाग्रेषु संलग्ना:- प्राप्ताः निशि - रात्रौ नक्षत्रपंक्तयो नगौकसां नगे-पर्वते ओक:-निवासो येषां ते नगौकसस्तेषां गिरिशिखरनिवासिनां पुरुषाणां पुष्पसन्देहं - कुसुमभ्रान्ति कुर्वन्ति - जनयन्ति । ते जानन्ति एता नक्षत्रराजयो न भवन्ति, किन्तु पुष्पाण्येव लग्नानि सन्तीति ॥ ४७ ॥ इतश्च एतेषु प्रचण्डपवनाहततरुतल' गलितसुगन्धिविकच 'कुसुमप्रकरमकरन्दमापीय३ पुनः शिखरशाखाभिमुखमुत्पतन्त्यो विभान्ति दुरारोहतया कृताः केनापि निःश्रेणय इव श्रेणयो मधुलिहाम् । ३६१ इतश्च निश्चलानां सैन्यभयेन तुङ्गतरुशिखरपञ्जरपुञ्जितगोलाङ्गूलमण्डलानां निर्यन्नवप्ररोहाङ कुराकाराः कुर्वन्ति वनदेवतानां ५ क्रीडान्दोलनदोलारज्जुशङ्कामधोलम्बिलाङ गूललतिकाः ६ । इतश्च चकासत्युड्डीयमानास्तरुशिखर शाखाग्र स्खलनविलग्नग्रहगणविमानपङक्तिपताका इव विहंगावलयो' । इतश्च विजृम्भमाण' मञ्जरीजालेषु सर्वर्तुविकासिसहकारवनेषु वनदेवताभिरुद्दामदवदहनप्रतीकारार्थमनागतमेव सुगृहीत 'वारिगर्भाम्भोदपटलमिवा१९ लोक्यते १२ कोकिलाकुल कदम्बकम् । इतश्च विकसितसितपुष्पपिण्डपाण्डुरशिखराः १४ सुधाधवलितोर्ध्वभूमयो विलासप्रासादा इव कुसुमसायकस्य जराधवलमौलयः कञ्चुकिन इव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy