SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३४० दमयन्ती-कथा-चम्पूः कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्कामपहसितसुरासुर सुन्दरीरूपश्रियं २शृङ्गाररसराजधानीमिवावलोक्य यौवनावस्थां दमयन्त्याः ‘कोऽस्याः किलानुरूपः पतिर्भवेत्' इति, चिरं चिन्ताकुलो विदर्भेश्वरः स्वयं स्वयंवरकर्म प्रारम्भाय समं मन्त्रिभिमन्त्रनिश्चयं चकार । ___ न चिराच्च प्राच्योदीच्यप्रातीच्यदाक्षिणात्य नरपतिनिमन्त्रणाय सप्राभृतान्प्रगल्भप्रश्रयान्प्रधानप्रेष्यान्प्रेषयामास । प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमाप्तसखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् । कदाचित्तु-कस्मिंश्चित्प्रस्तावे दमयन्त्या एवंविधां यौवनावस्थां-तारुण्यदशामवलोक्य विदर्भेश्वर:- भीमः को अस्याः-दमयन्त्याः किलेति सम्भावनायां अनुरूप:-गुणादिभिरेतत्सदृशः पतिर्भवेत् ? इति अमुना प्रकारेण चिरं चिन्ताकुलः-सचिन्तः सन् स्वयंआत्मना स्वयम्वरकर्मप्रारम्भाय-स्वयम्वरविधिविधानाय मन्त्रिभिः समं मन्त्रनिश्चयंगुप्तवादनिर्णयं चकार-व्यधात् । “मन्त्रो देवादिसाधने । वैदांशे गुप्तवादे च" इत्यनेकार्थः [२/४५७-५८] । किम्भूतां यौवनावस्थाम् ? तरुणजनानां नयनान्येव कुरङ्गास्तेषां वागुरेवमृगबन्धनमिव यासा ताम्, यथा वागुरया मृगा बध्यन्ते तथाऽनया युवनयनानीति । तथा अनङ्गः-कामः स एव गजेन्द्रस्तस्य मदप्रवाहाय ढक्केव-वाद्यविशेष इव यासा तां । यथा गजेन्द्रस्य मदप्रवृत्तये ढक्का भवति तथा इयं कामस्य मदप्रवृत्तिकारिणी, अस्यां दृष्टायां कामः स्फीतीभवतीत्यर्थः । तथा अपहसिता-तिरस्कृता सुरासुरसुन्दरीणां रूपश्री:सौन्दर्यलक्ष्मीर्यया सा तां । तथा शृङ्गाररसस्य राजधानीव सुखावस्थानहेतुत्वात् यासा ताम् । ततो मन्त्रिभिर्मन्त्रकरणानन्तरं विदर्भेश्वरो न चिराच्च-स्तोकेनैव कालेन प्राच्याःप्राच्यां पूर्वस्यां भवाः प्राच्याः, उदीच्याः- उत्तरदिगुत्पन्नाः, तथा प्रतीत्याःपश्चिमदिगुत्पन्नास्तथा दाक्षिणात्या:-दक्षिणदिगुद्भवास्ततो' द्वन्द्वः, एवंविधा ये नरपतय:राजानस्तेषां निमन्त्रणाय-आह्वानाय सप्राभृतान्-ढौकनिकासहितान् प्रगल्भः-प्रौढः प्रश्रय:स्नेहो येषु ते तथाविधान् प्रधानाः-वार्तासु दक्षा ये प्रेष्या:-दूतास्तान् प्रेषयामास-मुमोच । प्राच्येति, ‘धुप्रागप्रागुदक्प्रतीचो यत्' [पा. सू. ४/२/१०१] इति यत्, दाक्षिणेत्येति, दक्षिणा पश्चात् पुरसस्त्यक्" [पा. सू. ४/२/९८] इति त्यक्, जातादौ तेषां मध्ये १. उत्पन्नास्ततो अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy