SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३३५ सौधोत्सङ्गभुवो विकीर्णकुसुमाः पूर्णेन्दुरम्यश्रिया,१ रम्यायां निशि नो हरन्ति हृदयं हृद्यं किमुद्वेगिनाम् ॥ १७ ॥ श्च्योतदिति वृत्तम् । सौधोत्सङ्गभुवः-नृपमन्दिरमध्यभूमयः पूर्णेन्दुरम्यश्रियापरिपूर्णचन्द्रचारुशोभया रम्यायामपि-रमणीयायामपि निशि-रात्रौ हृदयं-चेतो न हरन्ति-न . वशीकुर्वन्ति, किन्तु उद्वेगाय भवन्तीत्यर्थः, राज्ञ इति शेषः । युक्तं चेतत् उद्वेगिनांदुःखितानां किं हृद्यं-किं मनोहरं ? न किमपीति भावः । किम्भूताः सौधोत्सङ्गभुवः ? श्च्योतन्तः-जलं क्षरन्तो ये चन्द्रमणिप्रणाला:-चन्द्रकान्तजलमार्गास्तैः शिशिराः-शीताः, तथा सौगन्ध्येन-सौरभ्येण रुद्वं-व्याप्तं अम्बरं यैस्तानि तथा तैः सुगन्धितनभोभिर्निर्गच्छन्तिगवाक्षमार्गेण निःसरन्ति यानि नवधूपधूमस्य पटलानि वृन्दाति तैः सम्भिन्नानि-मिश्रितानि वातायनाति-गवाक्षा यासां ताः सम्भिन्नवातायनाः, तथा विकीर्णानि-विक्षिप्तानि पुष्पाणि यासु ताः । प्रणालशब्दस्त्रिलिङ्गः ॥ १७ ॥ अपि च हृद्योद्यानसरस्तरङ्गशिखरप्रेडोलनायासिताः, संभोगश्रमखिन्नकिंनरवधूस्वेदोदबिन्दुच्छिदः । सायं सान्द्रविनिद्रकैरववनान्यान्दोलयन्तः शनै रङ्गेऽङ्गारसमाः पतन्ति पवनाः प्रालेयशीता अपि ॥ १८ ॥ अपि च-पुन: हृद्येति वृत्तम् । एवंविधाः शनैरङ्गे लगन्तः प्रालेयशीता-हिमसमा अपि पवनाःवायवः अङ्गारसमा इव पतन्ति, विरहसन्तापोत्पादकत्वात् । किम्भूताः पवनाः ? हृद्यानिरम्याणि यानि उद्यानसरांसि-वनतडागानि तेषां यानि तरङ्गशिखराणि-ऊर्म्यग्राणि तेषां यत् प्रेखोलनं-तरलनं तेन आयासिता:-खेदिताः, खिन्ना इत्यर्थः, एतेन जलकणवाहित्वमुक्तम् । अतएव पुनः किम्भूताः ? सम्भोगश्रमेण-सुरतखेदेन खिन्ना:-श्रान्ताः याः किन्नरवध्वस्तासां स्वेदोदबिन्दून्-धर्मजलपृषतान् छिन्दन्ति-शोषयन्ति ये ते तथाविधाः । तथा सायं-सन्ध्यायां सान्द्राणि-निविडानि विनिद्राणि-विकस्वराणि यानि कैरववनानिकुमुदखण्डानि तानि अन्दोलयन्तः-कम्पयन्तः, एतावता शीतो मन्दः सुरभिश्चेति गुणत्रययुतस्यापि वायोविरहिणां दुःखजनकत्वमेवोक्तम् ॥ १० ॥ तदा प्रभृति चास्य प्रायः प्रीतिरभूद्दाक्षिणात्यजनेष्वेव, पुलकमकरोन्ना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy