SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३३१ विनोदास्तैः । यद्वा, दमयन्त्या या वृत्तवार्ताः-चारित्रवृत्तान्तानि ता एव विनोदा:-कौतुकानि तैः, अविदितः परिवर्त्तः- गमनं येषां ते तथाविधाः, शरदि भवं शारदं रूपं उष्णत्वातिशयादि तद्विद्यते यस्याऽसौ शारदी, शारदी इनः-सूर्यो येषु ते शारदीना वासराः यान्ति । एतेन तद्दिनानां तापहेतुत्वेपि हंसवार्त्तया सुखातिक्रमणमुक्तम् । किम्भूतस्य राज्ञः ? परिहता-हंसेनैव सह वार्ताकरणात् त्यक्ता निजा बन्धवः-स्वजना येन स तस्य । “वृत्तं वृतौ दृढे मृते । चरित्रे वर्तुले छन्दस्यतीताधीतयोवृते" [२/२०१] इत्यनेकार्थः ॥ १५ ॥ __एकदा तु प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुसुम कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनै:३ शचीदयितदिशि मन्द मुन्मिषत्कमलमुकुलोच्छ लच्चटुलालिचक्रवालकलकलेनोनिद्रितेन तन्द्रामुद्रितोन्मिषश्चक्षुषा चलच्चञ्चुकोटिकण्डूयनविरामधुतपक्षरोमराजिना राजहंसकदम्बकेनानुगम्यमानो विहंगमोविहाय सरस्तीरम्, उपसृत्य किंनरमधुर गीतध्वनिविनिद्रितमावश्यकशौचा'°वसाने राजानम्, इद११मवादीत् । एकदा तु-एकस्मिन् दिने एवम्भूतेन राजहंसकदम्बकेन अनुगम्यमान:-अनुत्रियमाणः सविहङ्गमः-पक्षी राजहंसः सरः-तीरं विहाय-त्यक्त्वा, उपसृत्य-राज्ञः समीपे समागत्य किन्नराणां मधुरः-मनोज्ञो यो गीतध्वनिः-रागवच्छब्दोच्चारस्तेन विनिद्रितं-प्रबुद्धं आवश्यक:-शौचावसाने-अवश्यकरणीयशुचिकर्मप्रान्ते राजानं इदं वक्ष्यमाणं अवादीत् । क्व सति ? तमसि-अन्धकारे प्रस्फुरन्ती-दीप्यमाना प्रभातारम्भे-प्रत्यूषोदये या प्रभा-दीप्तिस्तया प्रभिद्यमाने-विध्वस्यमाने सनि । किम्भूते तमसि ? नवं-नूतनं यन्नीलाञ्जनिका-कुसुमंतापिच्छतरुपुष्पं तद्वन्नीला कान्तिर्यस्य तत्तथा तस्मिन् । पुनः क्व सत्याम् ? उत्प्रेक्ष्यते, शचीदयितः-इन्द्रस्तस्य दिशि-प्राच्यां शनैः-मन्दं मन्दं विलीनलाक्षाभ्मोभिःगलितजतुपानीयैः सिच्यमानायामिव-प्लाव्यमानायामिव । किल प्रकृत्यैव प्रभाते प्राची लोहिता भवति परं कविरुत्प्रेक्षां कुरुते, मन्ये लाक्षारसेन सिच्यत इति । किम्भूतेन राजहंसकदम्बकेन ? मन्दं-शनैरुन्मिषन्ति-विकसन्ति यानि कमलमुकुलानि-पद्मकुड्मलानि तेभ्य उच्छलत्-निःसरच्चटुलं-चञ्चलं यदलिचक्र वालं-भ्रमरवृन्दं तस्य कलकलेनझङ्कारारवेण कृत्वा उन्निद्रितेन-त्यक्तनिद्रेण, तथा तन्द्रया-आलस्येन मुद्रिते-संकोचिते उन्मिषती-विकसती चक्षुषी येन तत्तथाविधेन, तथा चलन्ती या चञ्चुकोटि:-चञ्च्वग्रं तया यत् कण्डूयनं-खर्जूकरणं तस्य विरामे-निवृत्तौ सति विधूता-कम्पिता पक्षयो रोमराजिःतनूरुहपंक्तिर्येन तत्तेन । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy