SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पञ्चम उवासः ३२३ राजाऽपि 'सारसिके, साधु कृतम् । तत्क्रियतामशून्यः स्वाधिकारः । गम्यतामिदानीं 'यथास्थानम्' इत्यभिधाय तुष्टिप्रदानपरितोषितां तां लवङ्गिकासहितां विसृज्य, विरलीकृत्यपरिजनः प्रत्युज्जीवनौषधमिव प्राणरक्षाक्षरमिव स्वस्थीकरणमणिमिवाश्वासनभेषजमिवाह्लादनकन्दमिव तमग्रेस्थितमानन्दनिःस्पन्दपक्ष्मपालिना चिरं चक्षुषाऽविलोक्य बहुमानयन्मुग्धस्मितेन स्वागतमपृच्छत् । राजाऽपि-नलः उवाच -हे सारसिके ! त्वया साधु कृतं-चारु चक्रे । तदित्युपसंहारे, तस्मात् स्वाधिकारः-वनपालनलक्षणो निजाधिकारः अशून्यः-अविरहितः क्रियताम् । तथा यथास्थानं स्वं स्वं स्थानमनतिक्रम्य-यथास्थानं स्वीये स्वीये स्थाने इदानीं गम्यतां इत्यभिधाय, तुष्टया-हर्षेण यत्प्रदानं-हारादेवितरणं वासनेति यावत् तेन प्रकर्षण तोषितां-आनन्दितां तां-सारसिकां लवङ्गिकासहितां विसृज्य-मुक्त्वा । तथा परिजनं विरलीकृत्य- स्तोकीकृत्य अग्रे स्थितं तं-हंसं आनन्देन निःस्पन्दे-निश्चले पक्ष्मपालीप्रशस्तनेत्ररोमाणि यस्य तत्तथाविधेन चक्षुषा चिरं विलोक्य बहुमानयन्-गौरवयन् मुग्धस्मितेन-रम्यहास्येन स्वागतमपृच्छत्-सुखागमनवार्ता पप्रच्छेत्यर्थः । पृच्छेर्द्विकर्मकता । किम्भूतं तम् ? उत्प्रेक्ष्यते, प्रत्युज्जीवनस्य-पुन: प्राणधारणस्य औषधमिव-अगदमिव, अनेनागतेन नलस्य प्रत्युज्जीवनमिव जातमित्यर्थः । तथा प्राणरक्षाया अक्षरमिव, यथा प्राणरक्षाक्षरेण गच्छन्तः प्राणास्तिष्ठन्ति तथा अनेन हंसेन नलस्य गच्छन्तः प्राणा धृता इति । तथा स्वस्थीकरणस्य चेतः स्वास्थ्यविधानस्य मणिमिव, यथा स्वस्थीकरणमणिना चेतः स्वास्थ्यं विधीयते तथा अनेनापि । तथा आश्वासनाय-दुःखनिवर्त्तनाय भेषजमिवऔषधमिव, यथा भेषजेन आश्वासो जायते तथा अनेनापि । तथा आह्लादनाय-प्रीतिजननाय कन्दमिव, यथा कन्दात्-प्ररोहोत्पत्तिस्तथाऽस्मान्नलस्य आह्लादो जायत इति । सोऽपि 'देव' त्वदर्शनामृतमनुभवतो ममाद्य स्वागतम्' इत्यभिधायोपश्लोकयांचकार । देव प्रसृतकमलगन्धं नीरसंसक्तकण्ठं, धृतकुवलबमालं जातभङ्गोर्मिकं च । त्वयि कृतरुषि भीतास्तावदास्तां तडागं, निजमपि च कलत्रं शत्रवो नाद्रियन्ते ॥ ८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy