SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: परमपिपासया उत्कृष्टोदन्यया पयः- जलं पातुं उद्यतस्य प्रवृत्तस्य पुरुषस्य-अविरतायां अनिवृत्तायां तृषि वारिधाराया विधारणं-विच्छेदस्तदिव । “निवारणमिति" वा पाठ: तृषितः पुमान् पानीयं पातुं प्रवृतोऽद्यापि यावन्न तृप्तस्तावता अन्तराल एव पानीयपानविच्छेदं कश्चित् करोति तद्वत् भवताऽपि तत्कथामुपसंहरता विहितमिति । तथा इयं सा भुञ्जानस्य - भोजनं कुर्वतः पुंसो अर्द्धतृप्तिः - अर्द्ध आहाराभिलाषविच्छेदः । तथा सोऽयं असमाप्तं - अपूर्णं रतं - सुरतं यस्य तथाविधस्य पुंसो रिरंसायाः - रमणेच्छाया व्याघातःअन्तरायः। ‘रतिव्याघाताय ' ' पाठे तु स्पष्टमेव । तत् तस्माद्वेतोरन्तरे - कथाया अन्तराल एव विरन्तुं-निवर्तितुं न युक्तमेव । * निष्कारणोपकारिन्निति निष्कारणं कारणं विनैव उपकर्तुं शीलं यस्यासौ तस्य सम्बोधने हे* निष्कारणोपकारिन् ! हंस ! त्वया पुन:- भूयस्तस्य पुण्यराशेः पुण्यात्मनः स्वरूपाख्यानमेव - स्वरूपकथनमेव अमृतप्रपामण्डपःसुधापानीयशालारूपाश्रयविशेषः स प्रवर्त्यतां - विरच्यतां, पुनस्तत्कथा क्रियतामित्यर्थः । अतएव अनङ्ग एव ग्रीष्मः - निदाघस्तेन उपतप्ताः - सन्तापिता एवम्विधा दमयन्तीसदृक्षाश्च ताः कन्यकाश्च एवंविधकन्यकाः प्रसारितौ - विस्तारितौ श्रवणे एव अज्जली याभिस्तास्तथाविधाः सत्यश्चिरकालं चिरं निर्वान्तु - शान्तीभवन्तु । अमृतप्रपामण्डपे हि ग्रीष्मोपतप्ता अञ्जलिभ्याममृतं पीत्वा निर्वान्ति तथेमा अनङ्गतापतप्ताः श्रवणाञ्जलिभिस्त-द्वार्ताऽमृतं पीत्वा सुखिन्यो भवन्त्वित्यर्थः । इत्थं परिहासशीलया उक्तः । ३१० सोऽपि सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापितप्रतिमस्या किं प्रशस्यते । " यत्र श्रूयमाणेन मधुरो वेणुवीणाक्वणः ३, दृष्टे नाभिरामः कामः । संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्ययममृतम्, अभ्यस्ते नानन्दीन्दुः, प्रसादिते न प्रशंसास्पदं धनदः ५ । सोऽपि-हंसः इत्यभाषत-उवाच । इतीति किम् ? हे सुन्दरि ! तस्य समस्तस्त्रीभिर्हृदयमेव प्रासादः-देवगृहं तत्र प्रतिष्ठापिता- निहिता प्रतिमा- प्रतिबिम्ब यस्य स तस्य, सर्वासामपि स्त्रीणां हृदये संक्रान्तस्येत्यर्थः । नलस्य अन्यत् - अपरं किं प्रशस्यते - किं श्लाघ्यते ? तथाहि यत्र नले श्रूयमाणे वेणुश्च-वंश: वीणा च वल्लकी तयोः क्वणः - शब्दो न मधुर:-न सुखकारी, यदा नल इति शब्दः श्रूयते तदा वेणुवीणारवो न मृष्टतां लभत इत्यर्थः । तथा यस्मिन्नले दृष्टे कामो नाभिराम: - न सुन्दरः, ततोऽपि अधिकरूपत्वात् । तथा यस्मिन् नले सम्भाषिते - वदति सरस्वती - भारती न सारा-न प्रधाना, सरस्वती भाषितादपि १. रतिव्याघात अनू. । ★ ★ चिह्नान्तर्गतपंक्तिर्नास्ति अनू. । २ तस्य ततोऽपि अनू. । ३. अधिकरूपवत्वात् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy