SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३०० दमयन्ती-कथा-चम्पू: श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्यस्मदनुकम्पयाऽपराधाः । पश्य। पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलयन्तोऽपि कमलाकरान्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्जनानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूभुजि भुजायामनिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिलसंतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः३, पतद्बहल'बाष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न लोचने तं दिवसं उदमीलयत् । केवलममन्दमन्यु द्गारगद्गदया गिरा पुनः पुनरिमं श्लोकम-पठत् । परिहृतं-त्यक्तं राज्यं येन तथाविधे तस्मिन् राजनि-वीरसेने वनाय प्रस्थिते च सति, तथा कृतः करुणः-दयोत्पादक आक्रन्द:-आरटनं याभिस्तास्तथाविधासु प्रजासु सतीषु । प्रजासु कास्विव ? रजन्यां वियुज्यमानाः-वियोगमाप्नुवत्यो याश्चक्रवाक्यस्तास्विव । यथा यामिन्यां भर्तृभ्यो वियुज्यमानाश्चक्रवाक्य आरटन्ति तथा नृपवियोगात् प्रजा अपि रुदन्तीति । तथा प्रतिगृह-प्रतिभवनं जरन्तः-वृद्धा ये पौरजनास्तेषु उच्चलितेषु-वनाय गच्छत्सु सत्सु । अथ सालङ्कायनः स्वसुतं नलं प्रति समर्पयन्नाह हे कल्याणिन् ! नल ! एष पितुःजनकस्य प्रणयस्य-स्नेहस्य प्रणामाञ्जलि:-नमस्करणार्थकरसम्पुटयोजनं एतदर्थं अस्माभिः प्रणामः क्रियत इत्यर्थः, शिक्षयितुः पितृसमानत्वात् मन्त्रिणः पितृप्रणयेत्युक्तं । तथाहि-अस्य क्रमेण-अस्मवंशपरिपाट्या आगतं यत् कर्म-सामादि तत्कर्तुं शीलं यस्य स तथाविधस्य, श्रुतशीलस्य कृतापराधस्य-विहितागसोऽपि त्वया अस्माकमुपरि या अनुकम्पा-दया तथा कतिपयेऽपि-कियन्तोऽपि अपराधाः सहनीया:-क्षम्याः । किं वत् ? त्वं पश्य-अवलोकय मृगाङ्कस्य-चन्द्रस्य करा:-किरणाः कमलाकरान्-कमलखण्डानि मीलयन्तोऽपिसंकोचयन्तोऽपि पयोराशेः-समुद्रस्य उद्वेगाय-दुःखाय न । यथा कमलाकरान् स्वसन्तानभूतान् संकोचयन्तोऽपि चन्द्रकराः पयोधिना सह्यन्ते । तथा सुमनसः-पुष्पाणि भ्रमराणां यो भरः-भारस्तेन यानि भञ्जनानि-कुब्जीकरणानि तानि किं न सहन्ते ? अपितु सहन्ते एव, न तु तान् निर्वासयन्ति । तथा भवतापि एतस्य अपराधाः सहनीया इति भावः । इत्यभिधाय स्वसुतं श्रुतशीलं नलं प्रति समर्प्य च-दत्वा प्रेम्णा-स्नेहेन अनुगतः-अनुयातो भूभुक् येन स तस्मिन् सालङ्कायने उच्चलिते च-प्रस्थिते च सति पुरतो राजपथात् १. प्रतिभवनं-प्रतिगृहं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy