SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ २८३ चतुर्थ उच्छ्वासः उपभोगश्च-स्वशरीरे भोजनाद्यर्थं प्रवर्तनं ताभ्यां उपयोगं-साफल्यं नयेत्-प्रापयेत् । न लोभं तदव्ययबुद्धिं कुर्यात् । लोभदूषणमाह-बहुना लोभेनानुगतः-संगतो नृपः सन्तापयतिदुःखीकरोति जनं, किरणकलापोऽपि-करौघोऽपि बहुल:-प्राज्य: तथा भानु-रविं गतौ मानवीय इत्यर्थः, जनं सन्तापयत्येव । यदि लोभवता मया संतप्यते जनस्तत्किमित्याशंक्याह अतः पत्र ! प्राप्स्यसि न चिरानिजकलकमलराजहंसी राज्यश्रियम । अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते खल्वियं लक्ष्मीः । अतःपुत्रेति । अत:- एतस्माज्जनसंतापनात्' हे पुत्र ! चिरात्-बहुनाऽपि कालेन निजकुलमेव कमलं तस्मिन् राजहंसीव मण्डनभूतत्वात् तां राज्यश्रियं न प्राप्स्यसि, जनानुरागप्रभवा हि सम्पदः । अथवा अतः-एतस्मात् पूर्वोक्तादस्मदुपदेशात् हे पुत्र ! न चिरात्-स्तोकेनैव कालेन राज्यश्रियं प्राप्यसि, प्राप्य य श्रियं अनवरतं-निरन्तरं कृतं यशो येन तद्दानं देहि-धर्मादिपात्रेषु श्रियं नियुक्ष्व इति भावः । नारायणेति । खलु-निश्चितं इयं लक्ष्मीः पात्रेषु व्यवकलयति त्वयि नारायण इव-विष्णाविव चिरं-चिरकालं सहर्षं रंस्यतेस्थास्यति । यथा विष्णौ लक्ष्मीश्चिरं तिष्ठति तथा त्वय्यपि । कीदृशे विष्णौ ? कृतो यशोदायाः जनन्याया२ आनन्दो येन स तस्मिन्, हि-स्फुटम् ।। बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि तदाहपाहि प्रजाः प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पातकैः२ । मा च वृद्धि प्राप्य गुणेषु द्वेष कार्षीः । व्याकरणे हि वृद्धिर्गुणं बाधते, न सत्पुरुष । पाहि-पालय प्रजाः । अनेन बलात् प्रजाभ्यो वित्तं न ग्रहीतव्यमिति भावः । यस्मात् प्रजां पातीति प्रजापः क्षत्रियः-राजा न पातकैः-पापैलिप्यते-उपदिह्यते "लिप उपदेहे" [पा० धा० १४३४] । क इव ? * ब्राह्मणस्तु प्रजपनं प्रजापः, सोपसर्गत्वाद्भावाकोंरिति घञ् [घत्रि च भावकरणयोः, पा० सू० ६।४।२७] सोऽस्यास्तीति प्रजाप: “अर्श आदित्वादच्, मत्वर्थीयः" [पा० सू० ५।२।१२७] पापैर्न लिप्यते ।* मा चेति । यः-पुनः वृद्धि-राज्यादिसमृद्धि प्राप्य गुणेषु द्वेषं मा कार्षीः-मा विधेहि। हि:-यस्मात् व्याकरणे-शब्दशास्त्रे वृद्धिर्गुणं बाधते, गुणबाधिका वृद्धिरिति वैयाकरणसमयः, न सत्पुरुषे वृद्धिर्गुणं बाधत इति । तेन हि वृद्धौ सत्यामपि गुणा मन्यन्त इत्यर्थः ।। १. जनन्या अनू. । ** चिह्नान्तर्गतपाठस्य स्थाने अनू. प्रतौ निम्नपाठो वर्तते–'ब्राह्मण इव, ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजाप: पापैर्न लिप्यते । जपनं जपः, व्यधजपमद्भ्य एभ्योऽनुपसर्गेभ्यो भावाकोंरल् स्यात्, सोपसर्गत्वे तु भावाकर्बोरिति घत्रि प्रजापः। यद्वा प्रजप्यते येनेति ।' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy