SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २६९ चतुर्थ उच्छ्वास: तरणिमण्डले-रविबिम्बे सति । किम्भूते ? उत्प्रेक्ष्यते, वियति - आकाशे तरतीव उन्मज्जतीव । पुन: किम्भूते तरणिमण्डले ? पूर्वदिग्वध्वाः कुङ्कुमपङ्केन- घुसृणकर्दमेन पल्लवितंकिसलयितं रक्तजातमित्यर्थः । यद्वदनं मुखं तदिवाचरत् पूर्वदिग्वधूकुङ्कमपङ्कपल्लवितवदनायमानं यस्मिन् । मन्ये, प्राचीनवध्वाः कुङ्कुमद्रवलिप्तं वदनमिति । तथा निरुद्धं-अपाकृतं अन्धतमसं - अन्धकारं येन तत् तथाविधे, “अवसं अन्धेभ्यस्तमसः " [पा० सू० ५।४८७९] इति अन्धशब्दात्तमसोऽच् । तथा सौगन्धिकानां - कल्हाराणां बन्धुरिव-भ्रातेव विकासकत्वाद् यत्तत्तथाविधे । तथा बन्धूककुसुमवत्-बन्धुजीवकपुष्पवत् अरुणे - लोहिते । पुनः क्व सति ? रोचिषां चये दिनकरकरनिकरे गगनाङ्गणं नभस्तलं मण्डयति - भूषयति सति । किम्भूते रोचिषां चये ? कुसुम्भकुसुमानां यानि केसराणि -किञ्जल्कानि तेषां य: प्रकर:-पटलं स इव आचरन् रक्ताभत्वात् कुसुम्भकुसुमकेसरप्रकरायमाणस्तस्मिन् । तथा अभोजमुकुलानां पद्मकुड्मलानां निद्रां संकोचं मुष्णाति - हर अभोजमुकुलनिद्रामुट् तस्मिन्, अभोजविकासकारिणीत्यर्थः । पुनः क्व सति ? पक्षिकुले - * पतत्रिपटले उपवने - कानने चरितुं - विहर्तुं चलिते सति । किम्भूते पक्षिकुले* ? तरुराजे : - वृक्षश्रेणेः कर्णोत्पलमिवअवतंसपद्ममिव यत्तत्तस्मिन् तत्प्रान्ते निविष्टत्वात् तेषाम् । तथा निद्राविरामेण - तन्द्राव्यपगमेन विद्युतौ - कम्पितौ पक्षौ -पक्षती येन तत्तस्मिन् । पुनः क्व सति ? राज्ञः - वीरसेनस्य सालङ्कायने मन्त्रिणि प्रविष्टे सति, प्रकरणात् राजसभान्तः । किम्भूतस्य राज्ञ: ? कृतं प्राभातिकंप्रभातसमये भवं कर्म- सन्ध्यावन्दनादि येन स तस्य, प्राभातिकेति “अध्यात्मादित्वाठ्ठञ्” [पा० सू० वा० शैषिक० ] | तथा सभायां यो मणिमण्डपः- मणिनिर्मित आश्रयः तस्य मध्ये वर्तितुं शीलं यस्याऽसौ सभामणिमण्डपमध्यवर्ती तस्य सभायां निषण्णस्येत्यर्थः । अतः पुनः किम्भूतस्य ? दत्तः सेवाया अवसरो येन स तस्य, यदुत भवद्भिर्मम सम्प्रति सेवा विधेयेति । पुन: क्व सति ? राजन्यचक्रे - नृपसमूहे यथासनं यद्यस्मै आसनं प्रदत्तमस्ति तत् अनतिक्रम्य यथासनं स्वस्वपीठं उपविष्टे - निषण्णे सति राजश्वशुराद्यदिति [पा. सू. ४/१/१३७] अपत्येऽर्थे यत् राजन्यः - क्षत्रियः । किम्भूते राजन्यचक्रे ? प्रणामेन - नृपाय नमस्कारेण पर्यस्तानि-पतितानि यानि कर्णोत्पतानि तैर्धवलितं - पाण्डुरीकृतं सभाङ्गणं येन तत्तस्मिन्, यदा ते नृपतिं प्रणेमुस्तदा तेषां कर्णेभ्यः श्वेतकर्णोत्पलानि पेतुः, ततः शुभ्रं राजाङ्गणं बभूव । पुनः किम्भूते ? प्रस्तुतः - प्रारब्धो यः सेवालाप:- चाटुवाक्यं तेन रञ्जितः - आवर्जितो राजावीरसेनो येन तत्तथा तस्मिन् । पुनः क्व सति ? शास्त्रीय: - शास्त्रसम्बन्धी यो विनोद:क्रीडास्थानं सुभाषितादिस्तस्मिन् प्रक्रान्ते - आरब्धे सति । आगत्य च क्षितितले मिलत् - संयुज्यमानं मौलिमण्डलं - मस्तकं यस्य स तथाविधः १. तस्मिन् अनू. । *–* चिह्नान्तर्गतपाठो नास्ति अनू. । २. अतएव अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy