SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ २६७ चतुर्थ उछासः प्रसादस्तस्य नलस्य नाभिरपि गम्भीरा-निम्ना व्यराजत-शुशुभे । तथा पल्लववत्-किसलयवत् सुकुमारं-कोमलं सकरुणं हृदयं-चेतो यस्य स तस्य नलस्य करचरणैरपि पल्लववत् सौकुमार्यमङ्गीकृतं-मार्दवं स्वीचक्रे । अथ किं बहुना सोष्णीषमूर्धा ध्वजचक्रपाणिरूर्णाङ्कविस्तीर्णललाटपट्टः । सुस्निग्धमूर्तिः ककुदुन्नतांसः कस्यैष न स्यान्नयनाभिरामः ॥ १५ ॥ अथ किम्बहुना-अथ किम्बहूक्तेन सोष्णीषेति वृत्तम् । एष-नलः कस्य-नरस्य नयनाभिरामः-नेत्रसुखकृन्न स्यात् ? किम्भूतः । उष्णीषाकारं-मुकुटाकारं शारीरिकं लक्षणं उष्णीषं, उष्णीषेण सह-युक्तो मूर्धाशिरो यस्य स सोष्णीष मूर्धा, तथा ध्वजचक्रे रेखारूपे पाणौ यस्य स ध्वजचक्रपाणिः, तथा ऊर्णा-भ्रूमध्ये शुभरोमावर्त्तः "स्वार्थे कः" [ ] ऊर्णाकेन उपलक्षितो विस्तीर्णःविशालो ललाटपट्टः-अलिकं यस्य स, तथा सुष्ठ-अतिशयेन स्निग्धा-अरूक्षा मूर्तिः-शरीरं यस्य सः, तथा ककुदवत्-वृषस्कन्धवत् उन्नतौ-मांसलौ अंसौ-स्कन्धौ यस्य सः ॥ १५ ॥ अपि च आस्यश्रीः संनिभेन्दोः समदवृषककुद्वन्धुरः स्कन्धसंधिः, स्निग्धा रुक्कुन्तलानामनुहरति दृशोर्द्वन्द्वमिन्दीवरस्य । स्थानं वक्षोऽपि लक्ष्याः स्पृशति भुजयुगं जानुनी वृत्तरम्ये, जङ्ग्रे क्षामोऽवलग्नः३ किमु निषधपतेः श्लाघनीयं न तस्य ॥१६ ॥ अपि च-पुन: आस्येति । तस्य निषधपतेः-नलस्य किम्-किं न श्लाघनीयं-न वर्णनीयं ? अपि तु सर्वमपि । तद्यथा-यस्य आस्य श्री:-मुखलक्ष्मीः इन्दो:-चन्द्रस्य सन्निभा-सदृशी, आह्लादकत्वात् । तथा यस्य स्कन्धसन्धिः-अंसभागः समदः-दृप्तो यो वृषस्तस्य ककुदवत्स्कन्धवत् बन्धुरः-रम्यः । ककुच्छब्दे नैव वृषस्कन्धे प्राप्ते ऽपि वृषग्रहणं हयहेषितादिवदुक्तपोषकत्वान्न दुष्टम् । तथा यस्य कुन्तलानां-केशानां रुक्-कान्तिः स्निग्धाचकचकायमाना । तथा यस्य दृशोर्द्वन्द्वं इन्दीवरस्य-पद्मस्य अनुहरति-अनुकरोति, तत्समं विशालं वर्तत इत्यर्थः । तथा यस्य वक्षोऽपि लक्ष्म्याः -शोभायाः स्थानं-आश्रयः । तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy