SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २६४ दमयन्ती-कथा-चम्पू: शेमुषी-मतिर्यस्य स । तथा सांख्ये-कपिलशास्त्रे विख्यातः-प्रसिद्धः, सांख्यशास्त्रवेत्तेत्यर्थः । तथा लोकायिते-चार्वाकशास्त्रे रञ्जितः-आवर्जितः प्रमोदितो लोको येन स रञ्जितलोकः, बार्हस्पत्यशास्त्रे प्रवीण इत्यर्थः । तथा प्राभाकरे-प्रभाकरशास्त्रे प्राप्ता प्रभा-स्फूर्तिर्येन स प्राप्तप्रभः । तथा चित्रवृत्तलक्षणं छन्दस्तस्मिन् प्रतिच्छन्दक:-प्रतिबिम्ब छन्दस्तत्प्रतिभायां प्रतिभातमित्यर्थः, तथा कल्प:-पितृदेवताद्याराधनविधिशास्त्रं तस्य ज्ञाने अनल्पः-बहुः विकल्पः-वितर्को यस्यासौ अनल्पविकल्पः । तथा अकारादिवर्णजन्मस्थानानां कण्ठताल्वादीनां बोधिका शिक्षा तस्यां विषये शिक्षा-शिक्षणं तत्र क्षमः-समर्थः, सर्वाक्षरोत्पत्तिस्थानविनेतेत्यर्थः । तथा शब्दशास्त्रे व्याकरणे न कृतः अपशब्दः-विपरीतशब्दो येन सः नापशब्दभाषीत्यर्थः । अपशब्देत्यत्र अपशब्दो विपरीतार्थः । यदुक्तं प्रसादे "आपो वियोगे निकृतौ विपरीते निदर्शने । आनन्दे वर्जने चौर्ये वारणे सम्यगीरितः ॥ १ ॥" [ ] अपयाति, अपकृतवान्, अपशब्दः, अपदिशति, अपहसति, अपत्रिगर्ता दृष्टो देवः, अपहरति, अपसरतीति ।" तथा अन्वर्थस्य प्रकाशकं निरुक्तं तत्र अभियुक्तः-उपयोगी । तथा अतीन्द्रियशुभाशुभप्रकाशकं' ज्योतिषं "अर्श आदित्वादच्"[ ] तस्मिन् सज्जः-सावधानः, परिच्छेत्तेत्यर्थः । तथा वेदान्ते-शास्त्रविशेषे तत्त्वं वेत्तीत्येवंशीलस्तत्त्ववेदी, रहस्यपरिज्ञाता । तथा सिद्धान्तेषु-मूलशास्त्रेषु प्रसिद्धः-ख्यातः । तथा तन्त्रीवाद्येषु-वीणावादित्रेषु स्वतन्त्रः-परानपेक्षः, स्वयमेव वीणां वादयतीत्यर्थः । तथा पटहेषु-पटहवादनेषु पटुः-कुशलः । तथा झल्लरीषुझर्झरीषु अप्रतिमल्लः-अनन्यसदृशः, झल्लाः सम्यक्वादयितेत्यर्थः। तथा पणवेषु-वाद्यविशेषेषु निपुणः-निष्णातः । पणवेष्विति "पणि व्यवहारस्तुत्योः, वडिचटिपेलचणिपणिपल्लिवल्लेरव" [ ] इति पणेरव-प्रत्यय:' । औणादिकः । तथा वेणुषु-शुषिरवंशेषु प्रवीणः । तथा चित्रविद्यायां-आलेख्यशास्त्रे चित्रकृत्-आश्चर्यकर्ता, सम्यचित्रयितेत्यर्थः । तता कामतन्त्रे-कामशास्त्रे उद्दामः- उत्कटस्तत्र प्रवीण इत्यर्थः । शालिहोत्रे-अश्वलक्षणशास्त्रे कुशल:चतुरः। तथा काष्ठकर्मणि-काष्ठतक्षणे श्रेष्ठ:-उत्तमः । तथा लेप्ये-लेपनकर्मणि सावलेपः-सगर्वः, सम्यक्लेतेत्यर्थः । तथा कोदण्डे-धनुविद्यायां पण्डितः । तथा शारि-छूतोपकरणेषु शौण्ड:विख्यातः । "शौण्डो विख्यातमत्तयोः" [२।१३०] इत्यनेकार्थः। तथा गणिते-संख्याशास्त्रे गुणवान्-कुशलः । तथा बाहुयुद्धेषु बहुल:-प्रचुरः, भूरिबाहुयुद्धकर्तेत्यर्थः। तथा चतुरङ्गद्यूतक्रीडायांचतुरङ्गाभिधद्यूतविशेषे चतुरः-निपुणः । तथा देशानां या भाषा-वाग्विशेषास्तासु उपदेशक:वक्ता । तथा लोकज्ञाने-विश्वविशेषपरिच्छेदे अलौकिक:-लोकोत्तरः प्रधान उत्यर्थः । १. शुभाशुभकर्मणां प्रकाशकं अनू. । २. कामशास्त्रे नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy