SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २५३ चतुर्थ उछासः अस्तीति । वीर:-शूरो वीरसेनो नाम प्रसिद्धः प्रजानां पती-राजा अस्ति । किम्भूतो वीरसेनः ? समस्ता ये सुराश्च असुराश्च लोकाश्च तैः कर्णपूरीकृतं-अवतंसीकृतं कान्तकीतिरेव-विशदयश एव कुन्दकुसुमं यस्य स, यत्कीर्तिः सर्वैरपि श्रुतास्तीत्यर्थः । तथा कुसुमायुधः-कामस्तस्य रूपवद् रमणीया-चार्वी देहप्रभा-तनुकान्तिर्यस्य सः । तथा प्रभावः-अनुभावो माहात्म्यं तेन युक्तः । तथा विप्राणां भा-तेजो अवति-रक्षतीति विप्रभावः । च-विरोधार्थः, सचेत्थं यः प्रभावयुक्तो भवति स विगतप्रभावः कथं भवेत् किन्तु सप्रभाव एव स्यात् । तथा शुचिः-पुण्यः, तथा न उपतापं-लोकानां सन्तापं करोतीत्येवंशीलः अनुतापकारी । विरोधे तु, शुचिः ग्रीष्ममासः, यः शुचिर्णीष्मो भवेत् स कथं अनुतापकारी' भवेत्, किं उपताप-औष्ण्यं तत्करणशील एव स्यात् । “शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते । ग्रीष्मे हुतवहेऽपि" [चान्त० द्वि० ६] इति विश्वप्रकाशः । तथा घन:-प्रचुर आगमः-सिद्धान्तः समयश्च-सम्पत् यस्य स घनागमसमयः । “समयः शपथे भाषासम्पदोः कालसम्विदोः । सिद्धान्ताचारसङ्केतनियमावसरेषु च । क्रियाकारे निदेशे च" इत्यनेकार्थः [३।५४१५४२] । तथा वा-समुच्यये, अरिभिः-शत्रुभिर्बहुल:-व्याप्तो अरिबहुलस्तथाविधो न, प्रतिपन्थिरहित इत्यर्थः । विरोधे तु, यो घनागमसमयो वर्षाकालो भवति स वारिबहुलः कथं न भवेत् ? किन्तु जलप्रचुर एव स्यात् । तथा शिशिर:-शीतलः स्वभावः-प्रकृतिर्यस्यासौ शिशिरस्वभावः, तथा जाड्यं-मौयं तेन युक्तो न । विरोधे तु, शिशिरो माघफाल्गुनौ यः शिशिरस्वभावो-माघफाल्गुनस्वरूपो भवेत् स जाड्ययुक्तो हिमसहितः कथं न स्यात् ? इत्युष्णवर्षाशीतकालत्रयव्यतिरेकः । तथा कुशलेन-चतुरेण वयोरामणीयके नअवस्थासौन्दर्येण रामः-चारु । तथा विदेहादेशास्तेषामयं वैदेहो भागस्तेन जनकःजनकाख्यनृपप्रतिमः। यथा जनको वैदेहभागस्वामी तथाऽयमपि । तथा नैषधः-निषेधदेश्यः । पक्षे-रामः-दाशरथिः वै-तर्के देहस्य भा-कान्तिस्तां गच्छति-व्याप्नोतीति कृत्वा डप्रत्यये देहभागस्तेन शरीरकान्त्यनुहारिणा रामणीयकेन-सौन्दर्येण उपलक्षितस्थथा कुशलवयःकुशस्य लवस्य च जनक:-जनयिता । "रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते ॥" [२।३२७-३२८] इत्यनेकार्थः । तथा समरे-युद्धे न अभिभूतःपराभूतः । क इव? विरिञ्च इवः धातेव । स च किम्भूतः ? प्रजानां पतिर्जनकत्वात्, नाभे:-विष्णुनाभेर्भूतः जातः । यस्य च बहुशोभयाङ्गप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अखण्ड१. अनुपतापकारी अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy