SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २३४ दमयन्ती-कथा-चम्पू: अपाङ्गदर्शनानि सकामा:-'पाभिलाषाः, पक्षे कामः-स्मरः सम्यक्कामो येभ्य इति सकामाः । "तुमः समश्च काममनसोः"[तुमश्च मनः कामे] मलोपः । तथा चरणपाणिल्लवाः सुकुमारा:-सुकोमलाः, पक्षे महेन्द्रवत् कार्तिकेयोऽपि सुकुमारः । तथा सुधावत् कान्तिरस्येति सुधाकान्ति:-शुभं स्मितं-हास्यं, पक्षे सुधाकान्ति:-चन्द्रः । तथा दन्तच्छदः-ओष्ठः अरुणः-आरक्तः, पक्षे अरुणः-रविसारथिः । तथा भास्वन्तः-दीप्यमाना दन्ताः, पक्षे भास्वान्-रविः । तथा यस्याः केशाः सुष्ठ-अतिशयेन कृष्णा:-मेचकाः, पक्षे कृष्णः-विष्णुः । तथा प्रबुद्धा-व्युत्पन्ना वाणी, पक्षे बुद्धः-सुगतः । तथा गौरी-पीतवर्णा कान्ति:-देहच्छविः, पक्षे गौरी-पार्वती । तथा गुरु:-विशालः स्तनाभोगः-पयोधरपरिपूर्णता, "आभोगः परिपूर्णत्वे वरुणे छत्रयत्नयोः'' [३।११५] इत्यनेकार्थः । पक्षे गुरु:बृहस्पतिः । तथा पृथ्वी-विपुला जघनस्थली, पक्षे पृथ्वी-भूः । तथा सुरभिःसुगन्धिनिश्वासः, पक्षे सुरभि:-वसन्तः । तथा शोभनं गन्धं-परिमलं वहतीति सुगन्धवाह: "कर्मण्यम्" [ ] प्रस्वेदः-धर्मः, पक्षे गन्धवाहः-वायुः । तथा यस्याः सकल:-समस्तो अङ्गभोगः-अङ्गविस्तारः सह श्रिया-कान्त्या वर्तत इति सश्रीकः, पक्षे श्री:-लक्ष्मीः । एतावता सर्वदेवमयी तस्यास्तनुलता वर्णिता । अथ नक्षत्रमयत्वं तस्यां वर्णयति कि चान्यत्नक्षत्रमयीव सा' विनिर्मिता विधिना । तथाहि - भद्रपदा ज्येष्ठा सुहस्ता पूर्वोत्तरा सार्द्रहृदया' मूलं कंदर्पस्य । किं बहुना - किञ्चान्यदिति । किन्तु पुनः अन्यत् शृणुसा-दमयन्ती विधिना-वेधसा नक्षत्रमयी विनिर्मिता-निष्पादिता । तथाहीति भणित्वा स्वोक्तमेव द्रढयतिभद्रं-सुन्दरं पदं-पादन्यासो यस्याः सा भद्रपदा । तथा ज्येष्ठा-प्रथमापत्यं । तथा १. पृथुला अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy