SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः अधिष्ठातृदेव्या प्रतृप्तमिव ताण्डवितमिव, शुभ्राश्रयलाभात् । तथा कान्तिकलापस्य - दीप्तिसमूहस्य श्रिया - लक्ष्म्या कलकलितमिव - कोलाहलित मिव । कान्तिकलापश्रियाऽचिति यदि मामप्याश्रयिष्यामीति हर्षात् कोलाहलश्चके । किं बहुना - २२६ सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि । आसीदिमां विनिर्माय श्लाध्यः शिल्पपरिश्रमः ॥ २६ ॥ किम्बहुना - किं बहुतेन सर्गेति । वृत्तम् । सर्गस्य-सृष्टेर्यो व्यापारः - करणं तेन खिन्नस्य - श्रान्तस्य विधेरपिब्रह्मणोऽपि बहोः कालात् - चिरात् इमां दमयन्तीं विनिर्माय निष्पाद्य शिल्पपरिश्रमः श्लाघ्यः-वर्णनीयः आसीत् अन्यस्मिन् समस्तेऽपि निर्मिते न विधेः शिल्पपरिश्रमः श्लाघ्योऽभूत् अस्यां च निष्पादितायां स श्लाघ्यतामलभत । यदियं विधेः सृष्टिः श्रेयसी यस्यामीदृशी दमयन्ती अजायतेति ॥ २६ ॥ एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि जन्मनि संपन्ने नामकर्मसमये संमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमनकमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् । एवं - अमुना प्रकारेण अस्या:- दमयन्त्याः जन्मनि सम्पन्ने प्राप्ते नामकर्मणः समयेअभिधानदानप्रस्तावे मान्यजनं - पूज्यलोकं सम्मान्य- पुष्पफलताम्बूलादिभिरभ्यर्च्य जनेश्वरःराजा भीम: दमनकमुनेर्वरदानमनुस्मृत्य - विचार्य दमयन्तीति नाम प्रतिष्ठितवान्- स्थापितवान् । किम्भूते जन्मनि ? सततं निरन्तरं विस्तीर्णानि विपुलानि स्वर्णैः पूर्णानि यानि पात्राणि - भाजनानि तैः पूजिता:-सत्कृताः पूज्या द्विजन्मान:- ब्राह्मणाः यस्मिंस्तत् तस्मिन् । यज्जन्मनि विप्रेभ्यः स्वर्णपूर्णानि पात्राणि अदीयन्तेत्यर्थः । क्रमेण च प्रचुरामृतरससिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गावयवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु कैश्चिद्दिवसैरनुच्चचरणप्रचारचापल्यलीलाः ४, सहासमकरोत्परिजनं जनयन्ती बालके ली : ५, स्वच्छन्दमानन्दयांचकार पितरं तरङ्गभङ्गिरङ्गितेन ६, जननीमजीजनज्जातविस्मयां" स्मितमुग्धदुग्धस्निग्ध' दर्शितदन्तकान्तिकुन्द १ For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy