SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: क्रान्तं-आश्रितं सुष्ठु वृत्तं - वर्तुलाकारं तुहिनाचलस्य - हिमाचलस्य गण्डशैलयुगलमिवपर्वतच्युतस्थूलपाषाणद्वन्द्वमिव । कुचयुगलस्य गण्डशैलयुगलं, चूचुकद्वयस्य च बालबर्हियुगमुपमानम् । तथा शेखरीकृतौ - अवतंसीकृतौ उपरि धृतौ इन्द्रनीलस्य - नीलमणेः कलसौ - कुम्भौ यस्मिंस्तत्तथाविधं, अनङ्गसौधस्य - काममन्दिरस्य शिखरद्वयमिव । अत्र कुचयुगस्य शिखरद्वयं, चूचुकद्वयस्य च इन्द्रनीलकुम्भद्वयमुपमानम् । तथा भुजङ्गाम्यांकृष्णाहिम्यां सङ्गतं-परिवेष्टितं मुखं यस्य तत्तथाविधं, उज्ज्वलं - दीप्यमानं रौप्यं-रूप्यघटितं निधानकुम्भयोर्युग्ममिव । कुचयुग्मस्य रौप्यघटद्वयं चूचुकद्वयस्य च कृष्णभुजगद्वयमुपमानम्। तथा चञ्चूभ्यां उत्खातौ - उत्पाटितौ पङ्किलौ - कर्दमवन्तौ कमलकोमलकन्दौ येन तत्, ईदृशं उल्लासिनशीलं हंसमिथुनमिव । कुचयुग्मस्य हंसमिथुनं चूचुकद्वयस्य च चञ्चूत्खातपङ्किलकमलकन्दद्वयमुपमानम् । २२० अथ प्रियङ्गुमञ्जरी गर्भानुभावाद् यद् यद् अभिललाष तत्तदाहबबन्ध च चन्द्रकलाङ कुरकवलने स्पृहाम् । अभिलाषमकरोच्च'चञ्चलचञ्चरीककुलकलरवरमणीयविकच चूतवनविहारेषु । स्पर्शममन्यत बहु बहलमभ्यर्णावकीर्ण ३विकसितकमलवननिष्यन्दिमकरन्दबिन्दोर्मन्दतरतरङ्गसङ्गशीतल 'मलयमारुतस्य । चिन्तयांचकार५ चतुरुदधिलावण्यरसमास्वादयितुम् । अभ्यवाञ्छदतुच्छमशेष'ममन्दमन्दरमन्थानमन्थानोत्पन्नममृतमातृप्ति पातुम् । बबन्धेति । पूर्वक्रियापेक्षया चशब्दप्रयोगः । च:- पुनः चन्द्रकलाङ्कुराणां कवलनेभक्षणे स्पृहां - वाञ्छां बबन्ध - अबघ्नात् अकरोदित्यर्थः । चः- - पुनश्चञ्चलचञ्चरीकाणां-चटुलभृङ्गाणां यत्कुलं तस्य कलरव :- मधुरस्वर स्तेन रमणीयं- रम्यं यद् विकचचूतवनं सविकासाम्रकाननं तत्र ये विहाराः - विचरणानि तेषु अभिलाषमकरोत् । तथा मन्दतरा:-१ शनैर्शनैर्वान् तथा तरङ्गाणां सङ्गेन- सम्पर्केण शीतल:- शीतो यो १. मन्दतर: अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy