SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ १९६ दमयन्ती-कथा-चम्पू: उपकर्तुं-उपकारं विधातुं, तथा प्रियं-मधुरं वक्तुं, तथा अकृमिमं-अनौपचारिकं स्नेह-प्रेम कर्तुं प्रवर्तन्त इति क्रिया सर्वत्राऽध्याहार्या । कथमवगम्यते अयं सज्जनानां स्वभावः ? इत्याह-इन्दुः-चन्द्रः केन शिशिरीकृत:-शीतलविहितः ?? किन्तु स्वभावादेव शिशिर इत्यर्थः । यथेन्दोः स्वभावत एव शैत्यं तथैषां सज्जनानामुपकरणादिकरणं स्वभाव एवेति ॥१४॥ अपि च यथा चित्तं तथा वचो यथा वाचस्तथा क्रिया । चित्ते वात्रि क्रियायां च साधूनामेकरूपता ॥ १५ ॥ अपि चेति । पुनरिदमेव दर्शयति यथेति । साधूनां यथा चित्तं सरलं तथा वचोऽपि सरलाः, यथा वाचः सरलास्तथा क्रियाः-चेष्टाः अपि ऋजवः, ततश्चित्ते वाचि क्रियायां च साधूनां-सतां एकरूपतातुल्यरूपता। अव्यभिचारित्वं वाचि क्रियायां चेति । जात्या एकत्वेऽपि बहुत्वमवसेयं निष्पन्नो व्रीहिरित्यादिवत् ॥ १५ ॥ अपि च विवेकः सह संपत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्नयोपेतं चिह्नमेतन्महात्मनाम् ॥ १६ ॥ अपि च-पुन: विवेक इति । एतन्महात्मनां-महतां चिह्न-लक्षणं । तदेवाह-सम्पत्त्या-सम्पदा सह विवेकः-साध्वसाधुपरिज्ञानं । क्षुद्राणां हि सम्पदि विवेको नश्यति, महात्मनां च समृद्धावपि विवेको न गच्छति । तथा विद्यया-शास्त्रपरिज्ञानेन सह विनय:-महतां पूजनम् । अन्येषां हि विद्यायां-सत्यां विनयो याति, महतां च तस्यां सत्यामपि विनयविधानम् । तथा प्रभुत्वंऐश्वर्यं प्रश्रयः-प्रणयस्तेन उपेतं-सहितं । अन्येषां हि प्रभुत्वे जाते लघुभिः सह पूर्वकृतप्रणयोपयाति, महतां च तस्मिन् सम्पन्नेऽपि न प्रणयापकर्षो जायते ।। १६ ॥ तदेतत्सर्वमस्ति दीर्घायुषि त्वयि। श्रूयतामिदानी प्रस्तुतम् । १. शीतलो अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy