SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः नित्यमिति । अनुष्टुप् । हे भूत्या-भस्मना पाण्डुर-शुभ्र ! तथा गौः-वृषो वाहनं यस्य स तस्य सम्बोधने हे गोवाह !, सह उमया-गौर्या वर्तत इति सोमास्तस्य सम्बोधने हे सोमारे ! -हे स्वामिन् ! उमापते ! तुभ्यं नमो नमः-नमस्कारोऽस्तु । किम्भूताय तुभ्यम् ? अन्तः-मध्ये सारं-उत्कृष्टं तथा जितं-निजमहिम्ना स्तम्भितशक्तिं ईदृशं गरं-कालकूटं नित्यमुद्वहते-बिभ्राणाय । पक्षे, भवनं-भूतिर्जन्म, जन्मना पाण्डुरः स्वभाव:-चेतस्तस्य सम्बोधने हे भूति- पाण्डुर !, तथा गाः-किरणान् वहतीत्यण, गोवाहस्तस्य सम्बुद्धौ हे गोवाह ! हे सोमस्वामिन् ! चन्द्र ! तुभ्यं नमो नमः । भूतिवत् पाण्डुराश्च ता गावश्चेति कर्मधारये तु कृते समासाद् दुर्द्धरस्तथा च परमगववत् भूतिपाण्डुरगववाहः इति स्यात् । किम्भूताय तुभ्यम् ? नित्यं-सारं गौ-मृगस्तेन रञ्जितं-लाञ्छितं अन्त:-मध्यं उद्वहते । ननु नमो नमः इति पौनरुक्त्यं दोष इति चेत् ? न, हृतचित्तः सन् यत् पदमेकस्मिन्नेवाऽर्थे पुनः पुनर्वक्ति तत्र पुनरुक्तत्वं दोषाय न भवति, अपितु अलङ्कारायेति । तथा च रुद्रट:-"वद वदेत्यादि,३ तया वद वदेति हर्षे, तव तवास्मीति भये, चित्रं चित्रमिति विस्मये, हा हेति शोके, जय जयेति स्तुतौ, कुरु कुरु इति त्वरायां, धिग् धिगिति निन्दायां, दिशि दिशीति वीप्सायां, सर्वस्यां दिशीत्यर्थः ।" [काव्यालङ्कार ६।३०-३१ टीका] वारं वारमिति लोकप्रसिद्धमित्यादिवदत्र न पौनरुक्त्यदोषः । यद्वा, प्रकर्षेर्द्विवचनम् ॥ ३३ ॥ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयलोकं लोचनलोभनः स्मरसुहज्जातः स चन्द्रोदयः । यस्मिन्संस्मृत वैरदारुणरणप्रारभ्मिणो भ्राम्यतः क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ॥ ३४ ॥ एवं चेति । एवं च-वक्ष्यमाणप्रकारेण नातिचिरात्-स्तोकेनैव कालेन क्षुभ्यदिति । स धवलिताशेषभुवनतलश्चन्द्रोदयो जातः । किम्भूतः? लोचने लोभयति-वीक्षणाय लोभवती करोतीति लोचनलोभन: विन्मतोलृक् इति णौ मतुष्प्रत्यये लोपः । यद्वा, लोचने लोभयति-विमोहयतीति लोचनलोभनः, "लुभ् विमोहने" [ ]। तथा स्मरस्य सुहृत्-मित्रं स्मरसुहृत्, तदुदये तस्योदयात् । उत्प्रेक्ष्यते, चन्द्रोदये क्षुभ्यन्-क्षोभं प्राप्नुवन् यः क्षीरसमुद्रस्तस्य सान्द्राणि-निविडानि यानि सलिलानि तेषां ये उल्लोल्ला:कल्लोलास्तैर्लोकं प्लावयन्निव-आपूरयन्निव, क्षीरसमुद्रक्षोभस्य तत्सहचरितत्वात् । स इति १. सोमः अनू. । २. सोम ! अनू. । ३. वद वदेत्यादि जय जयेत्यादि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy