SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १५८ वेदनाव्यतिकरः । कदाचित् कस्मिंश्चित्समये वरदाया:- नद्याः एवं विधेषु पुण्या - पवित्रा या पुलिनपालि:-तटप्रान्तस्तस्यां ये पादपा:- तरनस्तेषां तलेषु वरदातटतरुतलेषु रममाणयो:क्रीडतोरनयो:-राज्ञीनृपयोः कोऽपि कपिकुटुम्बिनी - वानरी दृष्टिपथं - नयनमार्गं अवातरत्ताभ्यां दृष्टेत्यर्थः । किम्भूतेषु ? चटुलतराः - अतिशयेन चञ्चलास्तरुणा - नवा ये षट्चरणा:भ्रमरास्तेषां यच्चक्रं-वृन्दं तस्य चुम्बनाय - मधुपानार्थं यदाक्रमणं - आश्रयणं तेन यो भर:भारस्तेन भज्यमानं-नम्यमानं यन् मञ्जरीजालं, अतएव तस्माद् गलन्तः-श्रवन्तो अमन्दा:अनल्पा ये मकरन्दबिन्दवस्तैः कर्दमिलेषु-कर्दमवत् "सुपिच्छादित्वादिलच्”[पिच्छादिभ्य इलच् [ ]] तथा विविधाङ्गा वर्णादिभेदात्-अनेकप्रकारशरीरा ये विहङ्गास्तेषां विहारेणविचरणेन विदलितानि-खण्डितानि यानि दलानि - पत्राणि तैर्दन्तुरं - सञ्चारयोग्यं अन्तरालंमध्यं येषां तानि तथा तेषु । तथा स्मरबन्धुः - वसन्तस्तेन सुगन्धिः - सुरभिगन्धिर्यो गन्धवाहःवायुः स एव वाजी तस्य बाह्यालीव - बाह्यवाहनभूमिरिव यानि तानि तथा तेषु, यथा वाजिनो बाह्यालीषु क्रीडन्ति तथा वायुरपि तरुतलेषु भ्रमतीति । किम्भूता कपिकुटुम्बिनी ? इन्द्रवारुण्याः-विशालायाः फलं ऐन्द्रवारुणं परिणतं - पक्वं यदिन्द्रवारुणं तद्वत् आ- - ईषत् अरुणा-पिङ्गला कपोलकान्तिर्यस्याः सा । "क्वचिन्नेति वचनात् फलप्रत्ययस्य न लुप् । तथा उद्घुषितः-उच्छ्वसितो देह एव पिण्डः - गोलस्तस्मिन् कण्डूयने- कण्डूयायां यदाकूतंअभिप्रायस्तेन तरलितं-कम्पितं करकिसलयं यया सा । “पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिल्हयोः । कवले" इत्यनेकार्थः [२।१२४ - १२५ ] । तथा एक बालकं उदरदेशे लग्नं, अपरमपि-द्वितीयमपि पृष्ठे-तनोः पश्चाद्भागे प्रतिष्ठितं स्थितं बालकं उद्वहन्तीधारयन्ती । तां च - सकुटुम्बां कपिकुटुम्बिनीं अवलोक्य वीक्ष्य तयोः - राजराज्ञ्योरनपत्ययोःअपत्यरहितयोश्चेतसि-चित्ते अपत्यविषयः - सन्तानगोचरो यो विषमः - दुस्सहो विषादस्तस्य या वेदना-व्यथा तस्याः व्यतिकरः - सम्पर्क आस्पदं - अवस्थानमकरोत् । तां सापत्यां वीक्ष्य स्वयं निरपत्यत्वाद् दुःखिनौ जातावित्यर्थः । तमेवाह करपत्त्रधाराविकर्तन'दुःसहदुःखदूनमनसोर्वैमनस्य मभूद् भूमौ ३ राज्ये जने जीविते च । किमनेनाधिपत्येनापत्यशून्येन । करपत्रधारया-क्रकचतीक्ष्णाग्रेण यद्विकर्त्तनं-छेदनं तद्वद् दुस्सहं - सोढुमशक्यं १. काऽपि अनू. । दमयन्ती - कथा - चम्पूः Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy