SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः १५५ तस्य च महीपतेः - भीमस्य सर्वासां अन्तःपुरपुरन्ध्रीणां - अवरोधजनानां मध्ये प्रधानभूता-मुख्या प्रियङ्कमञ्जरीनाम प्रिया - रमणी अस्ति । किम्भूता ? आत्मरूपेण निजसौन्दर्येण उपहसिता - तिरस्कृता समस्तसुरसुन्दरीणां सकलदेवीनां सौन्दर्यस्य सारसम्पत्ति:-प्रधानसम्पत् यया सा तदधिकसौन्दर्यशालिनीत्यर्थः । तथा अकलङ्ककुलकन्दस्यनिःकलङ्कान्यवयकन्दस्य कन्दलीवनप्ररोह इव या सा, यथा कन्दात् कन्दल्या उत्पत्तिस्तथा निःकलङ्कवंशादस्या उत्पत्तिरिति । कन्दलशब्दस्त्रीलिङ्गः । "उपरागे समूहे च नवाङ कुरे मृगजातिप्रभेदे च ।" [ ] "कन्दली तु द्रुमान्तरे " [ ] इति । तथा कन्दर्पदर्प एव गजेन्द्रस्तस्यावष्टम्भे-आधारदाने स्तम्भयष्टिरिव या सा, यथा गजस्य स्तम्भयष्टिरवष्टम्भभूता तथा कन्दर्पदर्पस्येयमालम्बनभूता, अस्यां कन्दर्पः खेलतीत्यर्थः । तथा अखिलजनानां नयनान्येव कुरङ्गास्तेषां वागुरेव या सा, यथा वागुरया - मृगबन्धनेन मृगाः बध्यन्ते तथाऽनया समस्तजननेत्राणि स्वीयरूपे बध्यन्ते, अन्यत्र गन्तु त ददातीत्यर्थः । तथा रामणीयकेनरम्यत्वेन पताकायमाना-पताको पमसर्वोत्कृष्टा उद्भिन्ना - उल्लसिता नवयौवनश्रीःतारुण्यलक्ष्मीर्यस्याः सा यथा पताका सर्वस्योपरि राजते तथा अस्या रम्यत्वेन यौवनश्रीः पताकायत इति । तथा शृङ्गारस्य- सुरतस्य रसभेदस्य वा अगारं गृहं, तथा वनितानां विभ्रमा एव-विलासा एव अंकुरास्तेषामवनिः - भूमिः । यथा भुवोऽङ कुरा उत्पद्यन्ते तथा विभ्रमा अस्या उत्पद्यन्त इति । तथा सौभाग्यं च सुभगत्वं भाग्यं च दिष्टं द्वन्द्वैकवद्भावे सौभाग्यभाग्यं तस्य आभोगः - विस्तारः, अधिकसौभाग्यभाग्यवतीत्यर्थः । तथा राग एवअनुराग एव वृत्तं दृढं यन्नृत्तं - नर्तनं तस्य रङ्गशाला - नृत्तभूमिगृहं । यथा रङ्गशालायां नृत्यं प्रवर्तते तथा अस्यां युवजनानां रागः प्रवर्तत इति । " वृत्तं वृत्तौ दृढे मृते । चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते ।" इत्यनेकार्थः [२] २०१] । - अथाऽस्या रूपवर्णनं प्रथमैकत्वद्वित्वभ्यां स्त्रीक्लीबाभ्यां च कुर्वन्नाह भ्रमर यस्याः पद्मानुकारिणी कान्तिर्लोचने च, रम्भाप्रतिस्पर्धिनी रूपसंपत्तिरुरुमण्डले च, सुमनोहारिणी केशकबरी' भ्रूभङ्गचक्रे च, कोद्भासिनी ललाटपट्टिका कर्णोत्पले च, प्रवालानुकारिणी? दन्तच्छदच्छाया करचरणयुगले च । यस्याः सुवर्णमयं वचनं नूपुरं च पदे पदे मनोहरति । यस्याः सुमधुरया वाचा सदृशी शोभते कण्ठे कुसुममालिका । अलिकालयाऽप्यलकवल्लरीमालया सह विराजते तिलकमञ्जरी । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy