SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १४२ दमयन्ती-कथा-चम्पूः मुखकमलस्य यदवलोकनं-वीक्षणं तस्मै दर्पण:-आदर्शः । तथा यासां तारतरा-अतिशयेन उज्ज्वला या नयनकान्तिः सैव मुखमण्डलमण्डनाय चन्दनस्य-श्रीखण्डस्य ललाटिकाललाटभूषणम् । तथा यासां भ्रूभङ्गा एव विभ्रमाय-विलासाय मृगमदस्य-कस्तूरिकायाः पत्रभङ्गाः-पत्रलताः । तथा यासां कटाक्षा एव-अक्षिविकूणितानि जनजयाययुवजनवशीकरणाय परमास्त्राणि-प्रकृष्टशस्त्राणि । तथा यासां बन्धूककुसुमवदरुणा कान्तिर्यस्य ईदृशो यो दन्तच्छदः-ओष्ठः स एव लोकानां युवजनानां लोचनं च मनश्च तयोर्मोहनाय-वशीकरणाय माहेन्द्रमणि: माहेन्द्रं-इन्द्रजालं तन्त्रबलेन अविद्यमानवस्तुप्रकाशनमिति यावत्, तदर्थो मणिर्माहेन्द्रमणिः । यथा इन्द्रजालिका लोकस्य लोचनमोहनाय माहेन्द्रमणि प्रकटयन्ति तथैतासां दन्तच्छद एव जननेत्रमनोमोहकृत् । तथा यासां मुखकमलस्य य: परिमल:-आमोदस्तेन आगता ये मधुकरास्तेषां झङ्कार एव विनोदायकौतुकनिमित्तं वीणाध्वनिः । अन्योऽपि वीणाध्वनिर्विनोदाय क्रियते तत्र तासां मुखसौरभ्यलुब्धागतमधुलिट्झंकार एव विनोदकृत्, न वीणाध्वनेः प्रयोजनमिति भावः । किं बहुनाकिम्बहुना-किं बहूक्तेन ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः । मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ २६ ॥ ता एवेति । अनुष्टुप् । अहमेवं मन्ये-सम्भावयामि ता एव-दक्षिणदेशीया मृगेक्षणा निर्वृतेः-शर्मणः स्थानम् । पक्षे, निर्वृतिरेव-मुक्तिरेव स्थानम् । कथम् ? येन कारणेन तासामेव-मृगेक्षणानामेव स्तनान्तरं-स्तनमध्यं मुक्तानां-मौक्तिकानामास्पदं-आश्रयः । पक्षे, मुक्तात्मनामास्पदं निर्वृतिहि मुक्तानां स्थानं भवत्येवेति । मन्ये इति सम्भावनार्थे तिङन्तप्रतिरूपकमव्ययम् ।। २६ ।। मन्ये च । ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भोद्भवोऽपि भगवान् प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिशम् । मन्ये चेति । चः-विशेषे । अहं मन्ये विशेषेण ताभिरेव भगवान् कुम्भोद्भवोऽपिअगस्तिमुनिरपि प्रलोभित:-रञ्जितो भविष्यति । येनाद्यापि दक्षिणां दिशं न मुञ्चति । किम्भूताभिः ? विविधं-अनेकप्रकारं करिधेनुव्यानतमर्कटादिरूपं यन्निधुवनं-कामकेलि १. मुक्तानां मुक्तात्मनां अनू । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy