SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १४० दमयन्ती-कथा-चम्पू: मेरुरिव । स च कीदृशः ? सुवर्णप्रकृत्या-स्वर्णस्वभावेन रम्यः । तथा दृष्टः शूरपुरुषाणांविक्रमशालिनराणामवतार:-जन्म यस्मिन् स तथाविधः । क इव ? यदुवंश इव । स च कीदृशः ? दृष्टः शूरपुरुषस्य-वसुदेवपितुरवतारो यस्मिन् स । तथा बुधैः-पण्डितैः प्रधानः । क इव ? सोमान्वय इव-सोमवंश इव । स च किम्भूतः ? बुधेन-ग्रहविशेषेण प्रधानः, तस्य तत्पुत्रत्वात् । तथा स-देशः अनेकैः-बहुभिर्वनैः-काननैरुपेतः-सहितः । क इव ? वेदपाठ इव । स च कीहक्? अनेकैः सवनैः-यज्ञैरुपेतः, तत्र तेषां प्ररूपणात् । तथा यो देशः पर्वते पर्वते स्थाणुभिः-कीलैः, तथा पुरे पुरे पुराणपुरुषैः-वृद्धनरैः, [तथा] जले जले कमलोद्भवैः-कमलोत्पत्तिभिः, तथा पदे पदे-स्थाने स्थाने देवकुलैः-देवगृहैः, तथा वने वने वरुणैः-वृक्षः जलैर्वा, तथा स्थाने स्थाने नन्दयति-आनन्दयतीति नन्दनानि तैः उद्यानैःवनैः, कृत्वा स्वर्गस्य-दिवो अर्गल:-अधिकः । अत्र स्थाण्वादयो बहुत्वविशिष्टाः स्वर्गे हि एकैक एव स्थाण्वादिः । तथाहि एक एव स्थाणुः-ईश्वरः, एक एव पुराणपुरुषः-विष्णुः, एक एव कमलोद्भवःब्रह्मा, एकमेव देवानां कुलं-वृन्दं, एक एव वरुणः-प्रचेता सूर्यो वा, एक एव नन्दनमुद्यानं-इन्द्रवनम् । अतः स्वर्गाभ्यधिको देश इति । तथा तापी-नदी प्रायेण-बाहुल्येन यत्र स तापीप्रायस्तथा न तापयत्यवश्यमिति अतापी जनस्य । अपिः-विरोधे । स च तुल्यार्थः१ व्याख्येयः । तथाहि-यस्तापी प्रायो भवति बाहुल्येन जनस्य तापकृत् स अतापी कथं स्यात् ? परिहारस्तूक्त एव । यत्र - १शास्त्रे शस्त्रे वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान्, विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः । तथा यत्र-देशे ईदृशोऽशोक:-शोकरहितो लोको निरन्तरं वसति । कीदृशो लोकः? शास्त्रे-व्याकरणादौ, शस्त्रे-धनुर्वेदादौ, तथा वेदे-सामादौ, वैद्ये च-आयुर्वेदादौ, तथा भरतेसङ्गीतशास्त्रे, तथा भारते च-महाभारतादौ, तथा कल्पे-यज्ञकर्मणामुपदेशके शास्त्रे, तथा शिल्पे च-वास्तुकादिशास्त्रे, प्रकृष्टं धानं-धारणं यस्य स प्रधानः, शास्त्रशस्त्रादीनि प्रकर्षण धारयतीत्यर्थः । एवं सर्वत्रवाच्यलिङ्गता । मुख्यार्थस्य हि प्रधानशब्दस्य आविष्टनपुंसकलिङ्गत्वात् । तथा धनी-धनवान्, तथा धन्यः-पुण्यवान्, तथा धान्यवान् - सस्यबहुलः, तथा वाचि-वाण्यां विदग्ध:-चतुरः, तथा मुखे मुग्धः-रम्यः, परमर्मानुघट्टनात् । १. तुल्यार्थे अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy