SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १३८ दमयन्ती-कथा-चम्पू: दमयन्ती, कस्य सुता', कीदृग्रूपम्, कुत्र सा वसति, कश्च भवानस्माकमुपकर्तुमिच्छति', का चेयं दिव्यावाणी इत्येवमुक्तः स कथयितुमारेभे५ । हे भद्र !-कल्याणिन् ! इदं सतां-साधूनां लक्षणम् । किं तत् ? सप्तपदानि गम्यन्ते उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनं सख्यं-मैत्र्यम् । तथा उत्पन्नाः-सञ्जाताः कतिपयेकियन्मात्राः प्रियालापा:-मधुरवागुच्चारा यस्यामीदृशी सतां प्रीतिः, प्रेमस्तोकैरेव वागुल्लापैः सतां प्रीतिरुत्पद्यत इत्यर्थः । तथा सतां दाक्षिण्यं-अनुकूलता प्रयोजनं-कार्यं तन्निरपेक्षंतदनधीनं, अन्येषां हि प्रयोजनसापेक्षं आनुकूल्यं, सतां च प्रयोजनाभावादपि । तथा सतां वात्सल्यं-वत्सलता स्नेहवत्त्वं न कारणेन प्रगुणं-सज्जं, अन्येषां हि वात्सल्यं कारणेन प्रगुणं भवति, सतां तु कारणं विनाऽपि वात्सल्यप्रगुणम् । तथा सतां मैत्र्याः-प्रीतेर्भावोऽभिप्रायो मैत्रीभावः, न निमित्तेन सुन्दरः अनिमित्तसुन्दरो, अन्येषां हि निमित्ते-प्रयोजने सति मैत्रीभावो भवति, सतां तु निमित्ताभावेऽपि ।। अस्ति च तत्सर्वं सतां लक्षणं भवन्मूर्ती-त्वच्छरीरे, अतः कारणात् त्वं निःशङ्कशङ्काभावेन मया अभिधीयसे-कथ्यसे । यः सल्लक्षणलक्षिता न भवति तस्य पुरः कथनेन स्यात् किमु ? त्वं कथय केयं दमयन्ती ? कस्य-नृपस्य सुता ? कीदृक् रूपमाकारः सौन्दर्यं वा ? "रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च ।" इत्यनेकार्थः [२।३०१-३०२] । तथा कुत्र-देशसन्निवेशादौ सा वसति ? कश्च भवान्-त्वं ? अस्माकमुपकर्तुं-उपकारं विधातुमिच्छति ? का च इयं दिव्या वाणी ? इति । एवं नलेन उक्त:-कथितः सन् स-हंसः कथयितुं-वक्तुमारेभे-कथयामास । शृङ्गाररसभृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥ शृङ्गारेति । हे देव ! शृङ्गाररसस्य-शृङ्गाररूपजलस्य भृङ्गार इव-कनकालुकेव यः स, शृङ्गाररसेन पूरित इत्यर्थस्तत्सम्बुद्धौ हे शृङ्गाररसभृङ्गार ! नल ! तस्याः सौन्दर्येण वीरुदिव या सा सौकुमार्यात् सौन्दर्यवीरुत्तस्याः सौन्दर्यवीरुधो दमयन्त्या वार्त्तया विस्मयःआश्चर्य वार्त्ताविस्मयः स एव पल्लवो वार्त्ताविस्मयपल्लवः स कर्णमारोप्यतां-श्रोत्रं निधीयतां, तद्वा" श्रूयतामित्यर्थः । शृङ्गाररसेन सिच्यमाना सौन्दर्यवीरुद्वर्द्धते, शृङ्गारोऽपि कर्णकण्ठे निहितेन पल्लवेन शोभते । इत्युभयसमागमौचित्यौक्ति: । श्लोकः ॥ २५ ॥ १. प्रयोजनाभावेऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy