SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १२६ दमयन्ती-कथा-चम्पू: हेममुद्रिकावत् कलधौतमय्यो घना-निविडा या घर्घर्य:-किङ्किण्यस्तद्वत् जर्जरो यः स्वर:ध्वनिस्तेन च कृतः स्वस्तिशब्दो येन स तथाविधः । अथ श्लोकानेवाह पाण्डुपङ्कजसंलीनमधुपालीसमं गलम् । यो बिभर्ति विधेयात्ते ना कपाली स मङ्गलम् ॥ १४ ॥ अपि च । ___पाण्ड्विति । पाण्डुः-श्वेतं यत्पङ्कजं-सरोजं तस्मिन् संलीना-श्लिष्टा या मधुपालीअलिश्रेणिस्तया समं-सदृशं गलं-कण्ठं यो बिभर्ति-धारयति स ना-पुमान् कपालीकपालमाली अर्थात् शिवस्ते तव मङ्गलं-कल्याणं विधेयात्-क्रियात् ॥ १४ ॥ अपि च-पुनः सरलप्रियं गुणाढ्यं लम्बितमालं विचित्रतिलकञ्च । वनमिव वपुस्तवैतत्कथमवनं नृप ! जनस्याभूत् ॥ १५ ॥ अपि च । सरलेति । आर्यावृत्तम् । हे नृप ! एतत् प्रत्यक्षतो दृश्यमानं तव वपुर्वनमिव अस्य जनस्य-लोकस्य कथं अवनं-कथं वनं नाऽभवत् । अवनशब्दस्य वनप्रतिषेधार्थत्वात् । पक्षे, अवनं-रक्षकमभूत् । कथमिति विरोधे । किम्भूतं तव वपुर्वनं च ? सरला:-अकुटिला: प्रिया यस्य तत्, तथा गुणैः-शौर्यधैर्यादिभिराढ्यं-समृद्धं, तथा लम्बिता-लम्बायमानी कृता माला-स्रक् यस्य तत् । तथा विचित्राणि-विविधानि तिलकानि-विशेषका यस्य तत् तथाविधं च । वनपथे-सरलाश्च-देवदारवः प्रियङ्गवश्च-फलिनीलतास्ततः समाहारद्वन्द्वे सरलप्रियंगु तेन आढ्यं, तथा लम्बिनः-प्रलम्बास्तमाला यत्र तत्, तथा विशिष्टाश्चित्राःचित्रका यास्तिलकाश्च-वृक्षविशेषा यत्र तत् तथाविधं च ॥ १५ ॥ अपि च-पुनः वरसहकारकरञ्जकवीरतरोऽशोकमदनपुंनाग । विविधद्रुममय राजन् ! कथमसि न बिभीतकः क्वापि ॥ १६ ॥ For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy