SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः तरङ्गाः-परम्परास्तै रङ्गितानि - शोभमानानि अक्षराणि - वर्णाः यस्मिंस्तत्तेन । तथा श्रवणपथेकर्णमार्गे प्रथमं - पूर्वं प्रियातिथिरिव - वल्लभपथिक इव यत्तत्तथा तस्मिन् पथिको यथा पूर्वं पथि प्रवर्तते तथेदं श्लोकत्रयं नलस्य श्रवणपथे पथिकवत्तदानीमेव प्रवृत्तं न तु पूर्वं कदाचित् कृतमित्यर्थः। अतएव प्रियातिथिसमानत्वं तेषां विषवद् विषमाः - दुःपरिणामा ये विषयाः-शब्दादयस्तेषां वैरस्ये- निःस्वादत्वे यद्व्रतं एतान्न भोक्ष्यं इत्येवं रूपं तदेव व्रतति:-वीरुत्तत्र कठिन:- तीक्ष्णधारः कुठारः - परशुरिव यत्तत्तथा तस्मिन् । एतस्मिन् श्लोकत्रये श्रुते विषयविरक्तताव्रतं निवर्तत इत्यर्थः । किम्भूतमुद्यानम् ? अमन्दः - बहुलो यो मन्दारमकरन्दानां-कल्पवृक्षपुष्परसानां आमोदः-परिमलस्तेन मत्ता - दृप्ता ये मधुकरास्तेषां यो मधुरझङ्कारस्तेन रमणीयं- रम्यं, मधुपानमत्ता मधुपा मधुरं तत्र गुञ्जन्तीत्यर्थः । प्रथमसम्मुखप्रेङ्खितेन चलच्चन्दनामोदनन्दिनान्दोलन 'वेगवित्रस्तकुसुमिततरुशिखरसुप्तसुरतश्रमखिन्नकिन्नरी निबिडतरपरिरभ्यमाणकिन्नरनमस्कृतेन क्रीडाकमलदीर्घिका तरङ्गोत्सङ्गतरुणतामरसरसविसरोद्गारहारिणा यौवनमदनिरुद्धनैषधी ४ धम्मिल्लवल्लरीचलनविलास "लासकेन वनमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य' 'देव, भवद्वैरिवधूवदने वने च नारंगतरूपशोभे भान्ति गण्डशैलस्थलालङ्कारधारिण्यो लोध्रलताः, नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालका, नाधरीकृतस्ताम्बूलीरागः ७, पल्लवितमेतद्द्द्दश्यतेशोकजालम् । इतश्च काञ्चनगिरिरिव सुरचितः क्रीडापर्वतः । इतश्च ' गूर्जरकूर्चमिवाखण्डितप्रवालं बालशालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूपकुलम् । इतश्च धूर्जटिजटाजूट इव पुंनागवेष्टितो वापीपरिसरः । इतश्च कुरुसेनेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः । इति भङ्गश्लेषोक्तिदक्षया वनरक्षिकया १० कथ्यमानानि ११ वनविनोदस्थानान्यवलोकयाञ्चकार । तत ईदृग्विधेन वनमारुतेन उत्पुलकिता - रोमाञ्चिता तनुर्यस्य स ईदृग्विधः सन् नलः स्तोकं - अल्पं अन्तरं वनमध्यं अतिक्रम्य, देव ! इत्यामन्त्र्य तवारिस्त्रीमुखे वने चाऽपि इदमिदमिति भङ्गश्लेषोक्ति * दक्षया वनरक्षिकया कथ्यमानानि वनविनोदस्थानानि १. तथा अनू. ।★ द्वर्थसाधक श्लेषः । १११ Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy