SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः अद्भुतैव यौवनश्री:-तारुण्यलक्ष्मीर्जयति-सर्वोत्कर्षेण वर्तते । किम्भूता यौवनश्रीः ? पुष्पेषोः-कामस्य वैजयन्तीपताका सर्वजगज्जयादियं कामेन जयपताकाप्राया निर्मितेत्यर्थः । पुनः किम्भूताः ? युवजनान्-तरुणलोकान् उन्मादयति-उन्मत्तान् करोतीति युवजनोन्मादिनी ॥५७॥ अपि चेति । पुनस्तस्या एव स्तुतिमाहआकारः स मनोहरः स महिमा तद्वैभवं तद्वयः, सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो, यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥५८॥ आकार इति । शार्दूलविक्रीडितम् । तस्या:-कुमार्याः स मनोहर:-मनोज्ञ आकार:आकृतिः । “आकार इङ्गिताकृत्योः" इत्यनेकार्थः [३।५५५] । तथा स महिमा-अनुभावः; तथा तद्वैभवं-ऐश्वर्यं, तथा तद्वयः-यौवनं, तथा सा कान्तिः-शरीरच्छविः । तथा च-पुनः स विश्वस्य समस्तस्य विस्मयं-आश्चर्यं करोतीति विश्वविस्मयकरः, सौभाग्यस्य-सुभगत्वस्य भागधेयस्य च उदयः-प्रादुर्भावः । एषामाकारादीनां मध्ये एकैकस्य कस्यचिद्वर्णयितुमुपक्रान्तस्य आकारादेरेकस्मिन् विशेषणसामस्त्येन वर्णनविधौ-वर्णनाकरणे स एव क्षमः-स एव समर्थो भवेत् यस्य उरगप्रभोरिव-शेषस्येव जिह्वा सहस्रद्वयं भवेत् । यथा उरगप्रभोर्जिह्वासहस्रद्वयं वर्तते, तथा यस्य एतावत्यो जिह्वा भवन्ति स एव वर्णयितुं क्षमः स्यात्, नान्यः वर्णनीयस्याकारादेर्बहुविशेषमयत्वात् । यदा तु 'जिह्वासहस्रं मुखे' इति पाठस्तदा सहस्रशब्दोऽमितबहुत्ववचनः । यदाहुवृद्धा:-"शतसहस्रशब्दौ भूयसी संख्यामनियतामाहतुः" [ ] । इति ॥५८॥ सापि यथा त्वमिदानी मामिह पृच्छसि तथार्धपथमिलितं कञ्चिदुदीचीनपथिकं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्त्तमिव तत्रैव विश्रमितुमारभत । श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुदीच्यनरपते:३ श्लाघ्यमानस्य कथाशेषालापः५ । १. भाग्यस्य भागधेयस्य अनू० । २. आकारादेरस्मिन् अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy