SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पूः देशे शम्भुनाऽपि निवासश्चके स कथं न वर्ण्य: ? इत्यर्थः । किम्भूतेन शम्भुना ? त्रिपुरस्यत्रिपुराभिधानदैत्यस्य यानि पुराणि तेषु या पुन्ध्रय:-स्त्रियस्तासां रोध्रतिलकं हरतिअपनयतीत्येवंशीलस्त्रिपुरपुरन्ध्रिरोध्रतिलकहारी तेन । तत्र स्थितेन हि भगवता त्रिपुरासुरो हतः। अतस्तन्नितम्बिनीनां सौभाग्याद्यभिव्यञ्जकरो,तिलकहर्ता । पुनः किम्भूतेन ? हरिविरिञ्ची-विष्णुवेधसौ तयोश्चूडामण्यो:-शिरोमण्योः यन्मरीचिचक्रं-किरणजालं तदेव चकोरस्तेन चुम्बित:-आस्वादितः चरणनखा एव चन्द्रस्तस्य रुचिनिचय:-कान्तिवृन्दं यस्य स तेन । चकोरेण हि चन्द्ररुचि पीयते, हरिधातारौ अपि हरपादयोनमस्कृत्यर्थं पतत इत्यर्थः । किम्भूतः श्रीशैलः ? सेव्यतया-आश्रयणीयतया उपहसिता-तिरस्कृता कैलासस्य श्री:-शोभा येन सः । कैलासे किल शम्भुः कदाचित्तिष्ठति अत्र तु चिरमस्थात्, अतः सेव्यतया कैलासोऽपि येन निर्जित इत्यर्थः । तथा च-पुनः यत्र-देशे काबेरीतीरभूमयः-अर्द्धजाह्नवीतटभूमयः नाकलोकस्यस्वर्लोकस्य या कमनीयता-सुन्दरता तां कलयन्ति-प्रेरयन्ति तर्जयन्तीत्यर्थः । “कल् किल्क् नुदौ" [ ] यद्वा, कलयन्ति-धारयन्ति यादृशी स्वर्लोकस्य सुन्दरता तादृशी एतासामपि। कलयतिर्धारणार्थोऽपि, तथा च क्रियाकलापे-“दधते दधाति धरति च धारयति वहर्यत कलयति च" [ ] इति । किम्भूताः काबेरीतीरभूमयः ? विकचानिप्रफुल्लानि यानि विविधवनानि तेषु यो विहारः-विचरणं तेन सुरभिः-सुगन्धिर्यः समीरण:वातस्तेन अन्दोलितानि-कम्पितानि यानि कदलीदलानि-रम्भापत्राणि तान्येव व्यजनानितालवृन्तानि तैर्वीज्यमानानि निधुवनविनोदेन-सुरतक्रीडया विद्राणानि-श्रान्तानि अतएव निद्रालूनि-शयालूनि यानि द्रविडमिथुनानि तैः सनाथ:-सहित: परिसरः-नैकट्यं यासां ताः । अत्र विद्राणशब्दः प्रकरणात् श्रान्तार्थः । यदुक्तम् "शब्दात्प्रकरणाल्लिङ्गादौचित्याद्देशकालयोः । शब्दादर्थं विजानीयान्न शब्दादेव केवलात् ॥" [ ] इति । अन्यथा अथं जागरितार्थे प्रसिद्धत्वान्नार्थसंगतिमंगति । पुनः किम्भूताः ? सरसा:-आर्द्रा घना:-निविडा ये निचुला:-हिज्जलाख्यवृक्षास्तेषां तलेषु अधोभागेषु चलन्तो ये चकोराश्च-चक्रवाककुलं च रथाङ्गसमूहः कपिञ्जलाश्च-श्वेततित्तिरयः, मयूराश्चशिखण्डिनः, हारिताश्च-पक्षिविशेषास्तैर्हारिण्य:-मनोहराः । पुनः किम्भूताः ? कलभाःशालिविशेषास्तेषां ये केदारा:-क्षेत्राणि तैः सारा:-उत्कृष्टाः । तथा सरसा:-आर्द्राः सहकारकारस्कराः-चूततरवो यासु ताः । १. वर्ण्यत अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy