SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ८३ प्रथम उच्छ्वासः भुवः कोऽप्यद्भुतवैभव एष भर्ता - स्वामी पृथ्वीपतिर्वर्तते इत्यर्थ: । "उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे " इति विश्वप्रकाशः [ष० तृ० १९] | " ऊर्णा मेषादिलोम्नि स्यादन्तरावर्तिते भ्रुवो: " [ विश्वप्र० ण० द्वि० २१] । शङ्खस्येत्यत्र " तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्" [पा० सू० २/३ / ७२ ] इति शङ्खस्येत्यत्र “तुल्यार्थैर्योगे तृतीयाषष्ठ्यौ स्त इति वचनात् सादृश्ययोगे षष्ठी ॥५३॥ तदेवंविधाः खलु महानुभावा महनीया भवन्ति इत्येवमवधारयन् समुपसृत्य ३ 'स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्' इत्यवादीत् । राजाऽपि सविस्मयमना मनागुन्नमितमस्तक: स्वागतप्रश्नेनाभिनन्द्य तीर्थयात्रिक ! कुतः प्रष्टव्योऽसि । क्व च कियच्चाद्यापि गन्तव्यम् । उपविश' । विश्रम्य कथय काञ्चिदपूर्विका ६ किम्वदन्तीम् ? अनेकदेशदृश्वानः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिचयः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या मणयः स्वां स्वच्छतामपह्नुवते । तदेहि, मुहूर्तमेकत्र' गोष्ठीसुखमनुभवावः १ इत्येनमवादीत् १० । - असावपि अपूर्वकौतुककथाकर्णनरसिक ११ ! श्रूयतां यद्येवं, इत्यभिधाय सुखोपविष्टस्यास्य समीपे स्वयमुपविश्य १२ कथयितुमारभत । तत्-तस्माद्धेतोः एवं विधा: - सकललक्षणोपेताः खलु निश्चितं महानुभावाःमहाप्रभावाः पुरुषा महनीया: - स्तवनीयाः स्तोतुं योग्या भवन्ति, १ एवं-उक्तप्रकारेण'अवधारयन्-विचारयन् समुपसृत्य-राज्ञः समीपमागत्य इति अवादीत् - अब्रवीत् । इतीति किम् ? तुभ्यं स्वकान्त्या स्वशरीरछव्या निर्जितः - पराभूतो मकरध्वजः - कामो येन स तस्मै स्वस्ति:-कल्याणमस्तु । इति स्तुति: । "स्वस्त्याशीः क्षेमपुण्यादौ" इत्यनेकार्थः [पर, ३३] । " तनेत्याशिषि उक्तायां सत्याम्" । राजाऽपि नलोऽपि सविस्मयमनाः कोऽयं किमित्याशिषं दत्ते इत्याद्याश्चर्यसहितचेताः मनाक्-स्तोकं उन्नमितं- उच्चैः कृतं मस्तकं शिरो येन स ईदृश: सन् स्वागतप्रश्नेन - शोभनमागतं भवत इति प्रश्नेन तं अध्वगं अभिनन्द्य - स्तुत्वा - हे तीर्थयात्रिक ! १. एवमनेन प्रकारेण अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy