SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः ८१ व्याहरन्तीषु सतीषु । अन्यस्यापि यस्य कस्यचिद्विनाशः केनचित् कृतो भवति, स किल तदन्यायं पूत्करोत्येव । यथाऽनेनैतदसाध्वनुचितमिति तथा वनस्थल्योऽपि मृगीरुतव्याजेनाऽन्यायं पूत्कर्वन्तीति । पूत्करणमार्त्तव्याहरणम् । तथा धूलिपटले-रजोवृन्दे इतस्तत:सर्वतः सञ्चरन्त:-वल्गन्तश्चटुलतरा:-अतिशयेन परिप्लवा ये तुरगा:-अश्वास्तेषां खुरशिखाभिः-खुराग्र-भागैरुत्खातं-उत्पाटितं यद्धरणी मण्डलं भूमण्डलं तस्मात्स्वर्गतलमुत्पतिते गते सति । उत्प्रेक्ष्यते-गगनचरेभ्यः-देवेभ्यो वनविनाशस्य वार्ता वनविनाशवार्ता२ तां कथयितुमिव-वक्तुमिव । तदनु न कृतं परित्राणं यस्य तत् अकृतपरित्राणं-अकृतरक्षणं, तथाविधे मूर्छित इव-मूर्छाल इव पुनर्भूयो भुवि पतति सति । अन्योऽपि कश्चित् परकृतं स्वजनविनाशं दृष्ट्वा कमप्युत्तमं पुरुष प्रति तत्कृतोपद्रवं कथयितुं याति, ततस्तत्कृतं प्रतीकारं अलब्ध्वा मूर्छितः पुनर्भुवि निपतत्येव तथेदं धूलिपटलमपि । किम्भूते धूलिपटले ? भवनस्य-गृहस्य ये पारापतपतत्रिणः-कपोतपक्षिणस्तेषां यानि पत्राणि-पिच्छानि तद्वधूसरे-ईषत्पाण्डुनि तथा सकम्पः-सवेपथुर्यः कपिकलाप:-वानरवृन्दं तस्य यत् उल्ललनं-एकां शाखां परित्यज्य अन्यशाखायां गमनं:-उत्प्लवनमित्यर्थस्तेन लुलिता:-कम्पिता यास्तरूणां तरुणा-नवामञ्जर्य:-वल्लरयस्तासां य: पुञ्जः-वृन्दं तस्य यो निकुञ्जः-गह्वरं तस्माच्चञ्चलं यच्चञ्चरीकाणां-अलीनां चक्रवालं-समूहस्तस्मिनुद्विजिते सति-उद्वेगं प्राप्ते सति, अत एव अपरं-द्वितीयं वनान्तरं-वनमध्यं प्रति उच्चलिते सति-गते सति, कपिकुलेन तरुमञ्जर्यो दोल्यन्ते ततस्तत्रस्था भृङ्गा उद्वेजिताः सन्तस्तद्वनं परित्यज्य वनान्तरमाश्रयन्तीति । किम्भूते चञ्चलचञ्चरीकचक्रवाले ? मञ्जुः-मधुरं गुञ्जति-झं कुर्वति । चक्रमणस्य-इतस्ततः परिभ्रमणस्य क्रमेण-परिपाट्या च सैन्यस्य श्रमावसरेपरिश्रान्तिवेलायां सम्पन्ने सति-सैन्ये श्रान्ते सतीत्यर्थः । श्रमं खेदं भजतीति श्रमभाक् तस्मिन् श्रान्ते, राजनि-नले तस्यैव सरलसालद्रुमस्याधस्ताद्-अधोभागे छायाया निषण्णेउपविष्टे सति । अकस्मात्-अकाण्ड एव कुतोऽपि-कस्मात् विदेशात् वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं, ग्रीवालम्बितमृन्मणिः कुटितवत् कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्ध्वाऽध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥५२॥ १. यद्धरणि अनू० । २. वनविनाश वार्तानास्ति अनू० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy