SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः तत्र च स्थितं श्रममुकुलितनयनारविन्दं, अन्दोलयन्तः२ कुसुमिततरून्, तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुतरलता३पल्लवनिवहान्, वहन्तो वह निर्झरजलशिशिरशीकरनिकरान् , करालयन्तः५ कुटजकुड्मलानि, मकरन्दबिन्दुमुचो मन्दमानन्दयामासुः कम्पितनीपवनाः पवनाः । ___ तत्र च-शालमूले स्थितं-निविष्टं नलं अमन्दं-अतिशयेन पवना:-वाता आनन्दयामासुः-प्रमोदयन्ति स्म । किम्भूतम् ? श्रमेण खेदेन मुकुलितं-संकुचितं नयनारविन्दं यस्य स तम् । किं कुर्वन्तः पवनाः ? कुसुमिततरून्-पुष्पितवृक्षान् अन्दोलयन्तः-चालयन्तः । अनेन सौरभ्योक्तिः । तथा शिखिनां-बहिणां शिखण्डमण्डलानि-बर्हसमूहान् तरलयन्त:दोलयन्तः कम्पयन्त इति यावत् । तथा तनुतरा:-अतिशयेन लघवो ये लतापल्लवनिवहाःवीरुत्किशलयसमूहास्तान् ताण्डवयन्तः-नर्तयन्तः, अनेन मान्द्योक्तिः । तथा वहन्तिपर्वतान्निःसरन्ति यानि निर्झरजलानि तेषां शिशिराः-शीतला ये शीकरनिकराःजलकणजालानि वहन्त:-धारयन्तः, अनेन शैत्योक्तिः। तथा कुटजानां कुड्मलानिमुकुलानि करालयन्तः-पृथू कुर्वन्तः विकासयन्त इत्यर्थः । "करालो रौद्रतुङ्गोरुघूणतैलेषु दन्तुरे' इत्यनेकार्थः [३।६६८] । उरु:-पृथुलम् । तथा मकरन्दबिन्दून् मुञ्चन्तीति मकरन्दबिन्दुमुचस्तद्वाहित्वात् । तथा कम्पितानि-दोलितानि नीपवनानि यैस्ते कम्पितनीपवनाः । अनन्तरमनवरत करालकौलेयककुलकवलनाकुलितकोलकरिकुरङ्गकण्ठीरवकिशोरपृषत्पृष्ठप्रधाविते परितः परिजने, जनितविविध "मृगवधूवधव्याधीन्व्याधा निवारयितुमिवान्तरान्तरा प्रसारितकरे मध्यस्थतां गतवति भगवति गभस्तिमालिनि, सहसंवर्धितमृगविनाशशोकभरादिव वनवीरुधां पतत्सु पुष्पलोचनेभ्यो बाष्पेष्विव मध्याह्नोष्णविलीनमकरन्दबिन्दुषु, श्रूयमाणेषु वनदेवतानां वनविमर्दोपालम्भेष्विव तरुखण्डोड्डीनविविधविहङ्गविरुतेषु, “विघट्टितार्भकमृगकुटुम्बिनि करुणकूजितव्याजेनान्यायमिव पूत्कुर्वतीषु वनस्थलीषु', इतस्ततः सञ्चरच्चटुलतरतुरङ्ग' खुरशिखोत्खात धरणिमण्डलाद्वनविनाशवार्ता गगनचरेभ्यः कथयितुमिवोत्पतितेऽम्बरतल११मकृत१२परित्राणे च मूर्छित१२ इव पुन:१३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy