SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः स्तथाविधा ध्रियन्ते-गृह्यन्ते । तथा तैः पदातिभिः अनुकूजन्तः कर्षणात्-अनुटणत्कारं कुर्वाणाः कोदण्डदण्डाः - धनूंषि कृष्यन्ते - आरोपितप्रत्यञ्चाः क्रियन्ते, गण्डकाश्च अनुकूजन्त:-ग्रहणादनुचीत्कारं कुर्वाणाः कृष्यन्ते । ये उद्भिन्नशृङ्गाः प्रौढास्ते खङ्गिनः, अत एव रयापातिनः त एव बालका गण्डकाः, अतएव कूजन्त इति विशेष: । तथा तैः पत्तिभिः परित:- सर्वतः शराः - बाणा विक्षिप्यन्ते - मुच्यन्ते । शरभाश्च - श्वापदविशेषा विक्षिप्यन्तेतत्स्थानाद्बहिर्निष्कास्यन्ते । तथा तैः पत्तिभिः तरवश्च-वृक्षास्तरक्षवश्च-चित्रका या भज्यन्ते त्रोट्यन्ते । एवं पदातिषु मृगयां विदधत्सु क्षणेन च - मुहूर्तेन च यज्जातं तदाह क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रकाशैलं शैलं भयादारोहन्ति रोहिताः, शरसङ्घातघूर्णिता' यान्ति महीं महिषाः, दुर्गसंश्रयं संश्रयन्तिरे तरलितनेत्राश्चित्रका : ४, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवविनिर्जित' तुरङ्गाः कुरङ्गाः । पीवरा:-मेदुरा वराहाः पतन्ति - निहतास्सन्तो भूमिसङ्गता भवन्ति । तथा दन्तिन:हस्तिनः सीदन्ति-विषष्णा भवन्ति । तथा रङ्कवः-मृगविशेषाः सातङ्का:- सभया: सन्तो विरसं-दु:स्वरं रसन्ति-शब्दायन्ते । तथा रोहिता: - श्वापदविशेषाः भयात् शैलं - पर्वतं आरोहन्ति - आश्रयन्ते । किम्भूतं शैलम् ? प्रकाशाः - प्रकटा एला-लता यत्र तम् । तथा महिषाः शरसङ्घातेन-बाणसम्यक्प्रहारेण घूर्णिता- घूर्णायमाना महीं यान्ति - पतन्ति । तथा तरलिते-भयादितस्तत: चलिते नेत्रे येषां ते तथाविधा चित्रका: - श्वापदविशेषाः दुर्ग:-विषमो यः संश्रयः-आश्रयो गर्त्तादिस्तं संश्रयन्ति । तथा कुरङ्गास्त्वरिततरं - अतिशयेन सत्वरं नभसि - व्योम्नि उत्पतन्त:-'उत्प्लवमानस्तरन्तीव उन्मज्जन्तीव । किम्भूता ? निजजवेन स्ववेगेन विनिर्जितास्तुरङ्गा:-अश्वा यैस्ते तथाविधाः । तत्र च व्यतिकरे जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः, संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूद्, येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥४८॥ १. येभ्यस्ते अनू० । ७५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy