SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः ६७ विजयमानाः-प्रकर्षेण वर्तमानो मनोजन्मा-कामो यत्र स तथा तस्मिन् । तथा जगत्-विश्वं जीवयति-वर्तयतीति जगज्जीवी तस्मिन्, तदानीं सस्याद्युत्पतेः । अथ विज्ञप्तिमाह देव ! किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयोरम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किं नु करेण कुञ्जर इति भ्रान्ति समुत्पादयन्दंष्ट्रायुग्म करालकालवदनः कोलः कुतोऽप्यागतः ॥४४॥ ततश्चासौ। देवेति । हे देव !-नृप ! “देवस्तु नृपतौ तोयदे सुरे" इत्यनेकार्थः [२।५३८] । किं स्यादिति । शार्दूलविक्रीडितवृत्तम् । ईदृग्विधः कोलः-सूकरः कुतोऽपिकस्माच्चिद् वनादागतः-आयातः । किम्भूतः ? दंष्ट्रायुग्मेन करालं-उच्चं कालं-कृष्णं वदनं-मुखं यस्य सः । करालेति' "डुबंग करणे" [सि० हे० धा० ८८८] "ऋकृभृवृतनि"-इत्यादिनौणादिक आलप्रत्यय: [सि० हे० ४७५] । किं कुर्वन् ? इति भ्रान्ति-सन्देहं जनयन्-उत्पादयन् । इतीति किम् ? दीर्घयोः-आयतयोः स्फटिकयोर्द्वन्द्वं दधत्-बिभ्रत्, किमिति वितर्के, अञ्जनपर्वतः स्यात् । तद्वपुषः कृष्णत्वात् अञ्जनगिरिसाम्यं, दंष्ट्रयोः श्वेतत्वात् स्फटिकयुग्मोपमानम् । उत-अथवा कि श्लिष्यद्लगद् बलाकाद्वयं यस्य स, ईदृग्विध अम्भोभिर्मेदुरः पीवरो-भृतो यो मेघ: अम्भोमेदुरमेघः स एष वर्तते बलाकाद्वयान्वितः सजलो जलद इति भ्रान्तिरुत्पद्यत इत्यर्थः । नु:अथवाऽर्थः । अथवा करेण शुण्डया शून्यः किं कुञ्जरः-हस्ती वर्तते । हस्तिनो दंष्ट्राद्वयमस्त्येवातस्तदंष्ट्रोपमानकल्पना न कृता, अञ्जनमेघयोगश्च सूकरदंष्ट्रोपमानस्य प्रकृत्या असत्वात् तत्परिकल्पना कृतेति । कोलस्य मेघकुञ्जरयोरुपमानं दंष्ट्रयोर्बलाकाद्वयकरिदन्तयोरुपमानम् । अत्र युग्मपदे द्वन्द्वशब्दं कश्चित् पठति, तदयुक्तं । स्फटिकयोर्द्वन्द्वमित्यत्र कथितस्य द्वन्द्वपदस्य पुनः प्रयोगे पुनरुक्तता स्यात्, तेन दंष्ट्रायुग्मेति पाठः श्रेयसः ॥४४॥ १. करालेति नास्ति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy