SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः ३९ त्रिदिवेति वृत्तम् । इह-निषधदेशे यस्यां-नगर्यां सुराणां सदनानि-प्रासादा विमानानि च तेषां यानि शिखराग्राणि-कूटाग्रभागास्तेषु वैजयन्त्यः पताका भान्ति-शोभन्ते । किम्भूताः ? आगृह्यन्ते एभिरिति आग्रहा:-अंकुटकास्तेषु ये ग्रन्थयस्तैर्नद्धाः-बद्धाः । उत्प्रेक्ष्यते-त्रिदिवपुरस्य-अमरावत्या या समृद्धिः-सम्पत्तस्याः स्पर्द्धया इव-संहर्षेणेव । अन्योऽपि यः स्पर्द्धते स किल पताकां बध्नातीति स्थितिः । किम्भूता वैजयन्त्यः ? नभसि .. उल्लसद्भिः-राजमानैः पवनेन-मरुता वेल्लन्त:-चलन्तो ये पल्लवा:-अञ्चलास्तैः परमंउत्कृष्टं वैभवं-माहात्म्यं शोभातिशयं वहन्त्यः-दधत्यः । लुप्तोत्प्रेक्षा ॥३२॥ पुनर्नगरीवर्णनमाहअपि च चार्वी सदा सदाचारसज्जसज्जनसेविता । नगरी न गरीयस्या सम्पदा सा विवर्जिता ॥३३॥ __ अपि चेति । सा नगरी-निषधा गरीयस्या-उत्कृष्टया सम्पदा-समृद्ध्या विवर्जितारहिता न, किन्तु अतिशयेन सम्पदा सहितेत्यर्थः । निषेधमुखेन विधिप्रतीतिस्तत्सातिशयत्वं द्योतयति । किम्भूता ? चार्वी-मनोज्ञा, तथा सदा-अजस्रं सदाचारसज्जा:-साध्वाचारप्रवणा ये सज्जनाः-साधवस्तैः सेविता-आश्रिता ।।३३।। एवं नगरीवर्णनाममिधाय तदधीश्वरप्रवरनलवर्णनां कर्तुमुपक्रमते यस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवृन्दसुन्दरीनेत्रनीलोत्पलगलद्बहलबाष्पपूरप्लवमान प्रतापराजहंसः, सकलजलनिधिःवेलावननिखातकीर्तिस्तम्भभूषितभुवनवलयः, वसुन्धराभोग' इव बहुधारणक्षमः, प्रसाद५ इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमेजय इव परीक्षितनयः, परशुराम इव परशुभाषितः, राघव इवालघुकोदण्डभङ्गरञ्जितजनकः, सुमेरुरिव जातरूपसम्पत्तिः, तुहिनाचल इव पुण्यभागीरथीसहितः, चिन्तामणिः प्रणयिनां, अग्रणीः सानामिकाणां, आदर्शो दर्शनीयानां, उपाध्यायोऽध्ययनविदा, आचार्यः शौर्यशालिनां, उपदेशकः शस्त्रशास्त्रस्य, परिवृढो दृढप्रहारिणां, अग्रगण्यः पुण्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy