SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः १२ इति कृत्वा ससुर:-मद्यपः कोऽपि न कुलीनः - नाभिजातः । पुनः सर्वथा सर्वेणाऽपि प्रकारेण समे-साधावमतिः सर्वथा साधुविषयां मतिमिच्छां सेवनादिरूपां न करोतीत्यर्थः । अथ च असुरैः सम्बद्धं मिलितं असुरसम्बद्धं काव्यं - शुक्रमभिलक्षीकृत्य यो न नन्दति-न हृष्यति स सुर:-देवः कोऽपि । तथा न कौ - भूम्यां लीनः - आश्लिष्टः स्वर्ग एव तस्यावस्थानात् । तथा मा- लक्ष्मी:, इ: - कामस्ताभ्यां सह वर्तत इति समे: विष्णुस्तत्र सेवनाय मतिर्यस्य स समेमतिर्विष्णुपक्षीय इत्यर्थः ॥१०॥ सम्प्रति वाग्विलासाधारानुदारान् वाल्मीकिप्रभृतीन् कतिचित् कवीन् वर्णयन्नाह— सदूषणापि निर्दोषा सखरापि सकोमला । तस्मै नमः कृता येन रम्या रामायणी कथा ॥११॥ सदूषणेति । तस्मै श्रीवाल्मीकिमुनये नमः । तस्मै इति कस्मै ? येन - कविना रम्या-शब्दार्थदोषरहितत्वाद् रमणीया रामायणीकथा चतुर्विंशतिसहस्रप्रमाणा कृता -विदधे । किम्भूता कथा ? दूषणखरौ राक्षसौ, सह दूषणेन वर्तत इति सदूषणा, तथा निर्दोषादोषरहिता । पुन: सह खरेण वर्तत इति सखरा, दूषणखरयोरत्र वध्यत्वेन प्रणीतत्वात् । तथा सह कोमलत्वेन-मृदुत्वेन वर्तत इति सकोमला-माधुर्यगुणोपेतेत्यर्थः, अपि:-विरोधे । स च दूषणखरयोर्दोषार्थकठिनार्थत्वे भवेत्, कथं या सदूषणा - सदोषा भवति सा निर्दोषाअपगतदूषणा कथं स्यात् ? तथा सह खरेण - खरत्वेन वर्तत इति सखरा, या सखरा भवेत् सा सकोमला कथं भवेदिति विरोधः । समाधिस्तु प्रागेवोक्तः । कोमलशब्दः खरशब्दश्च जललवणादिवत् भावप्रधानत्वेन ग्राह्याः । इहानुक्तोऽपि वाल्मीकिः प्रतीयते । प्रौढ : २ विशेषणप्रयोगाद्विशेष्यप्रतिपत्तिरिति वचनात् । किञ्चासौ भगवान् मर्त्यलोके काव्यसृष्टिप्रथमवेधा निरुपमरामायणीयकरामायणनिर्माणप्रवीणतयैव निर्दिश्यमानः प्रकृष्यते, नत्वितरसाधारणसंज्ञामात्रनिर्देशेन । अत एव कविनोत्कर्षचमत्कृतेन वाक्यसमाप्तिं प्रतीक्षितुमक्षमेण त्रिविक्रमेण वाक्यगर्भेऽपि तस्मै नमः इति भक्तिप्रकर्षप्रकाशनमुक्तम् । अर्धयोर्व्यत्यासपाठे तु गर्भितदोषशङ्खैव न स्यात् । नमस्तस्मै कृतेन्त्यपदद्वयस्यादावुपन्यासे सदूषणेत्यादिदलनस्य चान्ते न्यासेन तद्दोषसम्भव इति भावः । नम इति पदस्य पूर्वमेव न्यासात् रामोऽय्यते-ज्ञायते ऽस्यामिति रामायणी । "अधिकरणे ल्युट्, स्वरात्कृतश्च" इति णत्वम् ॥११॥ १. न च अनू० । २. प्रौढ अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy