SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: स्ववचनरचनया, “णीञ् प्रापणे" [पा० धा० ९६७] जनान्नयन्ति-सुखं प्रापयन्तीति जनन्यः-राजानस्तेषां रागहेतवः । तथा बहु-अत्यर्थं लान्ति अर्थात् यशो गृह्णन्तीति बहुला, एवं विधा आलापा येषां ते बहुलालापाः ॥८॥ ___यद्वा, हे एकाम ! तव के कवयः बालका इव सन्ति न केऽपि, त्वां स्तोतुं सर्वेऽपि प्रौढा एवेति भावः । हे आपदन्यासे अप्रगल्भ ! आपदां समूह आपदं तस्य न्यसनं न्यास:स्थापनं तस्मिन् अप्रगल्भ, सर्वसम्पन्निदानत्वात् । श्लेषाद्विसर्गलोपः । तथा हे जननीराग ! जनानां-कामुकलोकानां निश्चितो रागो यत्रेति, दृष्टिकामस्नेहभेदेन रागस्य त्रिविधत्वात् । बहुल:-सम्भोगविप्रलम्भादिविषय आलापो येषां ते बहुलालापा इति कविविशेषणम् ॥९॥ अथ कारणं विनाऽपि केचित् परोत्कर्षमसहिष्णवस्ततस्तानेव क्षुद्रान् काव्यप्रवृत्तिभङ्गहेतून् शब्दमात्रेण गौरवयन्नाह अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥७॥ अक्षेति । दुःनिन्दायाम्, दुष्टा:-कृत्याकृत्यभव्याभव्यविशेषविवेकविकला जना दुर्जनास्तेषामियं दौर्जनीसंसत्-सभा वन्दनीया-नमस्कार्या इत्युपहासवाक्यम् । श्लेषतस्तु वन्दे, गुप्तौ करणीया वन्दनीया । केव ? ब्रह्मणां-विप्राणामियं ब्राह्मी-संसदिव-द्विजसमेव, यथा द्विजसमा वन्द्यते तथा दुर्जनसंसदपि वन्द्या । किम्भूता दौर्जनीसंसत् ? अक्षमया-रुषा य आलापः-सम्भाषणं तस्य वृत्ति-व्यापारं जानातीति अक्षमालापवृत्तिज्ञा-कोपोल्लापयुक्वाक्प्रसरा, तथा कुशासनस्य-कुत्सितशिक्षणस्य परिग्रहः-स्वीकारो यस्याः सा कुशासनपरिग्रहा, तथा समे साधावपि खला प्रतिपक्षभूता । असाधौ यदि खला भवति तदा भवतु, परं साधावपि खलेत्यनौचित्यविस्मयमिश्रसमुच्चयार्थोऽपि शब्दः प्रतीयते । किम्भूता द्विजसभा ? अक्षमालाया:-जपमालाया अपवृतिः-भ्रमणं तां जानातीति । तथा कुशस्यदर्भस्य आसनं-विष्टरस्तस्य परिग्रहः-स्वीकारो यस्याः सा । पवित्रस्य पवित्रत्वात् तदासनमेव तस्या उचितम् । पुनः किम्भूता ? सह मेखलया-मौंज्या वर्तत इति समेखला । ब्राह्मीति "तस्येदं" [पा० सू० ४/३/१२०] इत्यण् । ब्रह्मण इत्यन्त्यस्वरादि लोपः । "ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ऋत्विग्योगभिदो" चेत्यनेकार्थः [२/२७९] । "समं साध्वखिलं सदृग्" इत्यनेकार्थः [२/३४४] ॥७॥ १. 'ततः' नास्ति अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy