SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २३६ • मङ्गलकलशकथानकम् साग्रहं स्वामिनं दृष्ट्वाऽनुमन्ये सचिवेश्वरः । चिन्तासन्तापविधुरो, निजं धाम जगाम सः ॥ ४२॥ बुद्ध्या विबुध्य दुःसाधुसाधनं विबुधाग्रणीः । तपसाऽऽराधयामास, गोत्रदेवीं गृहस्थिताम् ||४३|| उपवास-त्रयस्यान्ते, तृणशय्यानिषेदुषः । ब्राह्मये मुहूर्त्ते प्रत्यक्षाऽभवद् गोत्राऽधिदेवता ||४४|| यथाऽभ्यासेन विद्या स्यात्, यथा खड्गेन मेदिनी । साहसेन यथा सिद्धिस्तपसा देवता तथा ॥ ४५ ॥ वरं वृणीथ तुष्टाऽस्मि, प्रोक्ते देव्या कृताञ्जलिः । अवदत् सचिवेशोऽपि, तनयं निरुजीकुरु ||४६|| पुनर्बभाषे सा देवी, परिपाकः स्वकर्मणाम् । निवार्यते न केनापि, सुरेणाऽप्यसुरेण वा ॥४७॥ समुद्रतरणं वातबन्धनं स्खलनं पवेः । सुखावहं हि सर्वेषां न तु कर्मपारजयः ॥ ४८ ॥ यद्येवं देवि ! तद् देहि, भाटकेन वरं मम । यथोद्वाह्य कनीमेनां, मत्पुत्राय प्रयच्छति ॥ ४९ ॥ तच्छ्रुत्वा देव्यवोचत् तं दास्ये वत्स ! समीहितम् । देवानां दर्शनं वाक्यं सतां नैव निरर्थकम् ॥५०॥ मन्दुरारक्षकान्ते यो, बालकः शीतपीडितः । समेति तापनार्थं ते स समीहितपूरकः ॥ ५१॥ , इत्युक्त्वा गोत्रदेवी सा, नभसान्तर्दधे तदा । मन्दुरा-रक्षकस्यापि, गुप्तां शिक्षां ददौ च सः ॥५२॥ Sibya Jain Education International , For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy