SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १६१ दत्त्वा क्षमाश्रमणमित्यवधानपूर्वं श्रेष्ठी निकेतनमुपेत्य कृतार्हदर्चः । साधून् विहार्यपरिहार्यविपर्ययेण भोक्तुं समारभत स स्वजनैः समेतः ॥६१।। युग्मम् ।। सार्मिकानमृतसंनिभभोज्यपेयैः संमानितान्प्रथममभ्यवहार्य मान्यान् । यद्भुज्यते स्वरुचिभिः प्रतिलाभ्य साधूं___ स्तद्भोजनं जठरपूरणमन्यदाहुः ॥६२।। दौर्विध्यसंकुचितमानसवृत्तिदीना नामन्त्र्य भोज्यनिचयैरुपभोज्य सम्यक् । वासांसि निश्वसितहार्यतमाञ्चलानि दत्त्वा विसर्जयति स स्म निरीश्वरांश्च ॥६३।। आह्वाय्य मक्षु लिपिकर्मविधानदक्षान् स स्थूललक्षकुललक्षणलक्षणीयः । द्रव्यं वितीर्य जिननायकसंप्रणीत सिद्धान्तशास्त्रलिखनानि समादिदेश ॥६४।। इत्याग्रहेण महता निहतान्तरायं __धर्मं सदा विदधतोऽस्य धनेश्वरस्य । तुष्टा कथञ्चिदपि शासनदेवतासौ पुत्रो भविष्यति तवेति मुदा शशंस ॥६५।। देवीवरे ! भवति तुष्टिमुपागतायां नो दुर्लभं भवति किञ्चन वस्तुवृत्त्या । svag Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy