SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १५४ • मङ्गलकलशकथानकम् मुक्ताफलानि यवनालकराशिवन्मे हर्म्ये बृहत्कुवलिकाफलमानवन्ति ॥ २२॥ युग्मम् ॥ क्षौमाणि सन्ति विविधानि विचित्रभाञ्जि गौणीवदङ्गणगतानि परः शतानि । मृत्सेष्टकावदमिताः कनकेष्टकाश्च पाषाणवद् रजतखण्डकदम्बकानि ॥२३॥ वाहा दिवाकरमहारथवाहवाहदर्पापहारपटिमानममी वहन्तः । संख्यातिगाः किमिह सन्ति न मन्दुरायां सप्ताननं प्रथितनामतया हसन्तः ||२४|| ईशानवाहनमहावृषभानुकारा भाङ्कारनादजितभाद्रपदाम्बुवाहाः । कैलासशैलशिखरोच्चतरप्रमाणाः मद्गोकुलेऽत्र वृषभा बहवोऽपि सन्ति ॥२५॥ वज्राकरेऽपि न भवन्ति च यानि वज्रा यत्रैव तानि बहुधा द्युतिमन्ति सन्ति । माणिक्यमुख्यमणिसञ्चय एव सर्व: सर्वात्मनैव गगने यदिवोडुचक्रम् ||२६|| सर्वं तदेतदफलं तनयं विना मे विद्यास्थितेर्गुणगणो विनयं विनेव । स्फाती रसेशितुरनल्पनयं विनेव चारित्रमुज्ज्वलतरं च शमं विनेव ||२७|| eovav Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy