SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ११२ • मङ्गलकलशकथानकम् ऊचे च प्रेयसी: सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥३२॥ ता ऊचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥३३।। दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥३४।। ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ।।३५।। अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीष्यदः ? । कस्मैचिद् राजपुत्राय दातुं कन्या तवोचिता ॥३६।। राज्ञोचे न त्वया वाच्यमित्यर्थे किञ्चनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥३७।। मन्त्री कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा ! व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ? ||३८। रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन् करोम्यहम् ॥३९।। अथवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥४०॥ ततश्चाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् ! स्मृताऽस्मि किम् ? ॥४१।। मन्त्र्यूचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नीरोगाङ्गो भवेन्मम ॥४२।। oxas Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy